13.131
उमोवाच॥
भगवन्भगनेत्रघ्न पूष्णो दशनपातन। दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥१३-१३१-१॥
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा। केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥१३-१३१-२॥
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत्। प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ॥१३-१३१-३॥
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते। क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥१३-१३१-४॥
एतं मे संशयं देव वद भूतपतेऽनघ। त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥१३-१३१-५॥
महेश्वर उवाच॥
ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे। क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥१३-१३१-६॥
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः। ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥१३-१३१-७॥
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति। क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ॥१३-१३१-८॥
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते। ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥१३-१३१-९॥
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः। ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥१३-१३१-१०॥
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात्। स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ॥१३-१३१-११॥
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः। ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ॥१३-१३१-१२॥
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि। स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ॥१३-१३१-१३॥
स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः। ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥१३-१३१-१४॥
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः। धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥१३-१३१-१५॥
इदं चैवापरं देवि ब्रह्मणा समुदीरितम्। अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ॥१३-१३१-१६॥
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम्। घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ॥१३-१३१-१७॥
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः। पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥१३-१३१-१८॥
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै। आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥१३-१३१-१९॥
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः। ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥१३-१३१-२०॥
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै। तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥१३-१३१-२१॥
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते। अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ॥१३-१३१-२२॥
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः। स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥१३-१३१-२३॥
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी। निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ॥१३-१३१-२४॥
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः। ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ॥१३-१३१-२५॥
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा। शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥१३-१३१-२६॥
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि। शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ॥ कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥१३-१३१-२७॥
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः। ऋतुकालाभिगामी च नियतो नियताशनः ॥१३-१३१-२८॥
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः। वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ॥१३-१३१-२९॥
ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः। यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥१३-१३१-३०॥
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः। गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥१३-१३१-३१॥
शेषाशी विजिताहारो निष्कामो निरहंवदः। अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ॥१३-१३१-३२॥
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः। त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ॥ स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥१३-१३१-३३॥
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः। उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥१३-१३१-३४॥
ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः। अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥१३-१३१-३५॥
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्। सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥१३-१३१-३६॥
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः। यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ॥१३-१३१-३७॥
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः। ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ॥१३-१३१-३८॥
सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः। बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥१३-१३१-३९॥
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा। शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ॥१३-१३१-४०॥
स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत्। पितृदेवातिथिकृते साधनं कुरुते च यः ॥१३-१३१-४१॥
स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च। त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥१३-१३१-४२॥
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः। त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ॥१३-१३१-४३॥
ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः। विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥१३-१३१-४४॥
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः। शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः ॥१३-१३१-४५॥
ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः। ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ॥१३-१३१-४६॥
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः। शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ॥१३-१३१-४७॥
स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति। विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ॥१३-१३१-४८॥
न योनिर्नापि संस्कारो न श्रुतं न च संनतिः। कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥१३-१३१-४९॥
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते। वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ॥१३-१३१-५०॥
ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः। निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥१३-१३१-५१॥
एते योनिफला देवि स्थानभागनिदर्शकाः। स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ॥१३-१३१-५२॥
ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत्। यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ॥१३-१३१-५३॥
मिताशिना सदा भाव्यं सत्पथालम्बिना सदा। ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता ॥१३-१३१-५४॥
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना। नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ॥१३-१३१-५५॥
एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः। आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥१३-१३१-५६॥
ब्राह्मण्यमेव सम्प्राप्य रक्षितव्यं यतात्मभिः। योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥१३-१३१-५७॥
एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः। ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥१३-१३१-५८॥