13.130
उमोवाच॥
देशेषु रमणीयेषु गिरीणां निर्झरेषु च। स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च ॥१३-१३०-१॥
देशेषु च विचित्रेषु फलवत्सु समाहिताः। मूलवत्सु च देशेषु वसन्ति नियतव्रताः ॥१३-१३०-२॥
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर। वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥१३-१३०-३॥
महेश्वर उवाच॥
वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता। श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥१३-१३०-४॥
संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः। वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥१३-१३०-५॥
त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया। अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ॥१३-१३०-६॥
नीवारग्रहणं चैव फलमूलनिषेवणम्। इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् ॥१३-१३०-७॥
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम्। वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥१३-१३०-८॥
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा। मण्डूकयोगनियतैर्यथान्यायनिषेविभिः ॥१३-१३०-९॥
वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा। शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥१३-१३०-१०॥
अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः। अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः ॥१३-१३०-११॥
चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः। कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥१३-१३०-१२॥
वननित्यैर्वनचरैर्वनपैर्वनगोचरैः। वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ॥१३-१३०-१३॥
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्। नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् ॥१३-१३०-१४॥
अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम्। पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च ॥१३-१३०-१५॥
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसङ्करैः। विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥१३-१३०-१६॥
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा। सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥१३-१३०-१७॥
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्। गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् ॥१३-१३०-१८॥
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः। विस्तरेणार्थसम्पन्नो यथास्थूलमुदाहृतः ॥१३-१३०-१९॥
उमोवाच॥
भगवन्देवदेवेश सर्वभूतनमस्कृत। यो धर्मो मुनिसङ्घस्य सिद्धिवादेषु तं वद ॥१३-१३०-२०॥
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः। स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥१३-१३०-२१॥
महेश्वर उवाच॥
स्वैरिणस्तापसा देवि सर्वे दारविहारिणः। तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ॥१३-१३०-२२॥
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्। समाधिः सत्पथस्थानं यथोदितनिषेवणम् ॥१३-१३०-२३॥
ये च ते पूर्वकथिता धर्मा वननिवासिनाम्। यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥१३-१३०-२४॥
ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः। चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः ॥१३-१३०-२५॥
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते। न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥१३-१३०-२६॥
सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम्। हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते ॥१३-१30-२७॥
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः। सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥१३-१३०-२८॥
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे एते समे स्यातामार्जवं वा विशिष्यते ॥१३-१३०-२९॥
आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते। आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥१३-१३०-३०॥
आर्जवो भुवने नित्यं वसत्यमरसंनिधौ। तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः ॥१३-१३०-३१॥
क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः। धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥१३-१३०-३२॥
व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः। चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥१३-१३०-३३॥
उमोवाच॥
आश्रमाभिरता देव तापसा ये तपोधनाः। दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥१३-१३०-३४॥
राजानो राजपुत्राश्च निर्धना वा महाधनाः। कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ॥१३-१३०-३५॥
नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः। केन वा कर्मणा देव भवन्ति वनगोचराः ॥१३-१३०-३६॥
एतं मे संशयं देव तपश्चर्यागतं शुभम्। शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ॥१३-१३०-३७॥
महेश्वर उवाच॥
उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः। संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥१३-१३०-३८॥
मण्डूकयोगशयनो यथास्थानं यथाविधि। दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥१३-१३०-३९॥
शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते। दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥१३-१३०-४०॥
शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते। शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ॥१३-१३०-४१॥
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा। यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥१३-१३०-४२॥
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा। चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः ॥१३-१३०-४३॥
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्। मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥१३-१३०-४४॥
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः। प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥१३-१३०-४५॥
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च। गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ॥१३-१३०-४६॥
आत्मानमुपजीवन्यो नियतो नियताशनः। देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ॥१३-१३०-४७॥
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्। त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ॥१३-१३०-४८॥
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्। अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ॥१३-१३०-४९॥
साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः। चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ॥ स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥१३-१३०-५०॥
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्। हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥१३-१३०-५१॥
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः। आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः ॥१३-१३०-५२॥
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम्। अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ॥१३-१३०-५३॥
वीराध्वानमना नित्यं वीरासनरतस्तथा। वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥१३-१३०-५४॥
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः। दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ॥ सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥१३-१३०-५५॥
वीरलोकगतो वीरो वीरयोगवहः सदा। सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ॥ वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ॥१३-१३०-५६॥
कामगेन विमानेन स वै चरति च्छन्दतः। शक्रलोकगतः श्रीमान्मोदते च निरामयः ॥१३-१३०-५७॥