Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.132
उमोवाच॥
भगवन्सर्वभूतेश सुरासुरनमस्कृत। धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥१३-१३२-१॥
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा। बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ॥१३-१३२-२॥
केन शीलेन वा देव कर्मणा कीदृशेन वा। समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ॥१३-१३२-३॥
महेश्वर उवाच॥
देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते। सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥१३-१३२-४॥
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः। नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥१३-१३२-५॥
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः। वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ॥१३-१३२-६॥
कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन। ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः ॥१३-१३२-७॥
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः। तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥१३-१३२-८॥
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु। त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ॥१३-१३२-९॥
परस्वे निर्ममा नित्यं परदारविवर्जकाः। धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥१३-१३२-१०॥
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये। परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥१३-१३२-११॥
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च। स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥१३-१३२-१२॥
स्वदारनिरता ये च ऋतुकालाभिगामिनः। अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥१३-१३२-१३॥
परदारेषु ये नित्यं चारित्रावृतलोचनाः। यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥१३-१३२-१४॥
एष देवकृतो मार्गः सेवितव्यः सदा नरैः। अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥१३-१३२-१५॥
दानधर्मतपोयुक्तः शीलशौचदयात्मकः। वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ॥ स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥१३-१३२-१६॥
उमोवाच॥
वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः। तानि कर्माणि मे देव वद भूतपतेऽनघ ॥१३-१३२-१७॥
महेश्वर उवाच॥
आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा। ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥१३-१३२-१८॥
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च। अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥१३-१३२-१९॥
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम्। स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥१३-१३२-२०॥
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम्। अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥१३-१३२-२१॥
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम्। ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ॥१३-१३२-२२॥
वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः। सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥१३-१३२-२३॥
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः। सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥१३-१३२-२४॥
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम्। सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ॥१३-१३२-२५॥
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः। शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ॥१३-१३२-२६॥
उमोवाच॥
मनसा बध्यते येन कर्मणा पुरुषः सदा। तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥१३-१३२-२७॥
महेश्वर उवाच॥
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा। स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥१३-१३२-२८॥
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः। बध्यते मानवो येन शृणु चान्यच्छुभानने ॥१३-१३२-२९॥
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः। मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥१३-१३२-३०॥
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम्। नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥१३-१३२-३१॥
तथैव परदारान्ये कामवृत्तान्रहोगतान्। मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥१३-१३२-३२॥
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः। भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ॥१३-१३२-३३॥
श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः। स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥१३-१३२-३४॥
अवैरा ये त्वनायासा मैत्रचित्तपराः सदा। सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥१३-१३२-३५॥
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः। धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥१३-१३२-३६॥
शुभानामशुभानां च कर्मणां फलसञ्चये। विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥१३-१३२-३७॥
न्यायोपेता गुणोपेता देवद्विजपराः सदा। समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ॥१३-१३२-३८॥
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः। स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ॥१३-१३२-३९॥
उमोवाच॥
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर। तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ॥१३-१३२-४०॥
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो। तपसा वापि देवेश केनायुर्लभते महत् ॥१३-१३२-४१॥
क्षीणायुः केन भवति कर्मणा भुवि मानवः। विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥१३-१३२-४२॥
अपरे च महाभोगा मन्दभोगास्तथापरे। अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ॥१३-१३२-४३॥
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव। प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥१३-१३२-४४॥
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः। महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ॥१३-१३२-४५॥
अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे। दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ॥१३-१३२-४६॥
महेश्वर उवाच॥
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम्। मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ॥१३-१३२-४७॥
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा। नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ॥१३-१३२-४८॥
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः। अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ॥१३-१३२-४९॥
एवम्भूतो नरो देवि निरयं प्रतिपद्यते। विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥१३-१३२-५०॥
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः। यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥१३-१३२-५१॥
अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित्। मानुष्यं लभते चापि हीनायुस्तत्र जायते ॥१३-१३२-५२॥
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः। अप्रियः सर्वभूतानां हीनायुरुपजायते ॥१३-१३२-५३॥
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः। निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ॥१३-१३२-५४॥
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते। सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ॥१३-१३२-५५॥
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते। उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ॥१३-१३२-५६॥
अथ चेन्मानुषे लोके कदाचिदुपपद्यते। तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ॥१३-१३२-५७॥
एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम्। प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥१३-१३२-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.