13.134
महेश्वर उवाच॥
परावरज्ञे धर्मज्ञे तपोवननिवासिनि। साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ॥१३-१३४-१॥
दक्षे शमदमोपेते निर्ममे धर्मचारिणि। पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥१३-१३४-२॥
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती। मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ॥१३-१३४-३॥
वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला। रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ॥१३-१३४-४॥
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः। पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ॥१३-१३४-५॥
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि। स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः ॥१३-१३४-६॥
सहधर्मचरी मे त्वं समशीला समव्रता। समानसारवीर्या च तपस्तीव्रं कृतं च ते ॥ त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति ॥१३-१३४-७॥
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा। गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ॥१३-१३४-८॥
मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता। सुरकार्यकरी च त्वं लोकसन्तानकारिणी ॥१३-१३४-९॥
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे। तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे ॥१३-१३४-१०॥
उमोवाच॥
भगवन्सर्वभूतेश भूतभव्यभवोद्भव। त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ॥१३-१३४-११॥
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः। उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ॥१३-१३४-१२॥
एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः। प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ॥१३-१३४-१३॥
स्त्री च भूतेश सततं स्त्रियमेवानुधावति। मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ॥१३-१३४-१४॥
एषा सरस्वती पुण्या नदीनामुत्तमा नदी। प्रथमा सर्वसरितां नदी सागरगामिनी ॥१३-१३४-१५॥
विपाशा च वितस्ता च चन्द्रभागा इरावती। शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा ॥१३-१३४-१६॥
तथा देवनदी चेयं सर्वतीर्थाभिसंवृता। गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ॥१३-१३४-१७॥
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा। स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ॥१३-१३४-१८॥
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला। स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ॥१३-१३४-१९॥
अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः। तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शङ्करे ॥१३-१३४-२०॥
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्। दिवि वा सागरगमास्तेन वो मानयाम्यहम् ॥१३-१३४-२१॥
भीष्म उवाच॥
एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः। ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ॥१३-१३४-२२॥
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता। शैलराजसुतां देवीं पुण्या पापापहां शिवाम् ॥१३-१३४-२३॥
बुद्ध्या विनयसम्पन्ना सर्वज्ञानविशारदा। सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् ॥१३-१३४-२४॥
धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा। या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे ॥१३-१३४-२५॥
प्रभवन्पृच्छते यो हि संमानयति वा पुनः। नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ॥१३-१३४-२६॥
ज्ञानविज्ञानसम्पन्नानूहापोहविशारदान्। प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति ॥१३-१३४-२७॥
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि। अन्यथैव ह्यहंमानी दुर्बलं वदते वचः ॥१३-१३४-२८॥
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते। त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् ॥१३-१३४-२९॥
भीष्म उवाच॥
ततः साराधिता देवी गङ्गया बहुभिर्गुणैः। प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ॥१३-१३४-३०॥
स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि। तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् ॥१३-१३४-३१॥
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः। सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ॥१३-१३४-३२॥
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना। अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥१३-१३४-३३॥
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी। देववत्सततं साध्वी या भर्तारं प्रपश्यति ॥१३-१३४-३४॥
शुश्रूषां परिचारं च देववद्या करोति च। नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ॥१३-१३४-३५॥
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते। या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥१३-१३४-३६॥
श्रुत्वा दम्पतिधर्मं वै सहधर्मकृतं शुभम्। अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥१३-१३४-३७॥
परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा। सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ॥१३-१३४-३८॥
न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते। भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी ॥१३-१३४-३९॥
दरिद्रं व्याधितं दीनमध्वना परिकर्शितम्। पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥१३-१३४-४०॥
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्। पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ॥१३-१३४-४१॥
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा। सुप्रतीता विनीता च सा नारी धर्मभागिनी ॥१३-१३४-४२॥
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा। स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥१३-१३४-४३॥
कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता। सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ॥१३-१३४-४४॥
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा। देवतातिथिभृत्यानां निरुप्य पतिना सह ॥१३-१३४-४५॥
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि। तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ॥१३-१३४-४६॥
श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता। मातापितृपरा नित्यं या नारी सा तपोधना ॥१३-१३४-४७॥
ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा। बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥१३-१३४-४८॥
व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया। पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥१३-१३४-४९॥
पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः। या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥१३-१३४-५०॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः। पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥१३-१३४-५१॥
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत्। अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर ॥१३-१३४-५२॥
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम्। पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ॥१३-१३४-५३॥
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा। आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥१३-१३४-५४॥
एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव। या त्वेवम्भाविनी नारी सा भवेद्धर्मभागिनी ॥१३-१३४-५५॥
भीष्म उवाच॥
इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम्। लोकान्विसर्जयामास सर्वैरणुचरैः सह ॥१३-१३४-५६॥
ततो ययुर्भूतगणाः सरितश्च यथागतम्। गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ॥१३-१३४-५७॥