13.133
उमोवाच॥
किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः। स्वर्गं समभिपद्यन्ते सम्प्रदानेन केन वा ॥१३-१३३-१॥
महेश्वर उवाच॥
दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु। भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ॥१३-१३३-२॥
प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा। नैत्यकानि च सर्वाणि किमिच्छकमतीव च ॥१३-१३३-३॥
आसनं शयनं यानं धनं रत्नं गृहांस्तथा। सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ॥१३-१३३-४॥
सुप्रतीतमना नित्यं यः प्रयच्छति मानवः। एवम्भूतो मृतो देवि देवलोकेऽभिजायते ॥१३-१३३-५॥
तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान्। सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥१३-१३३-६॥
तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते। महाभोगे कुले देवि धनधान्यसमाचिते ॥१३-१३३-७॥
तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः। महाभोगो महाकोशो धनी भवति मानवः ॥१३-१३३-८॥
एते देवि महाभोगाः प्राणिनो दानशीलिनः। ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥१३-१३३-९॥
अपरे मानवा देवि प्रदानकृपणा द्विजैः। याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥१३-१३३-१०॥
दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि। याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥१३-१३३-११॥
न धनानि न वासांसि न भोगान्न च काञ्चनम्। न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन ॥१३-१३३-१२॥
अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः। एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥१३-१३३-१३॥
ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात्। धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥१३-१३३-१४॥
क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः। निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् ॥१३-१३३-१५॥
अल्पभोगकुले जाता अल्पभोगरता नराः। अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥१३-१३३-१६॥
अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः। आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ॥१३-१३३-१७॥
मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः। पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः ॥१३-१३३-१८॥
अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि। अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ॥१३-१३३-१९॥
गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते। अभिमानप्रवृत्तेन लोभेन समवस्थिताः ॥१३-१३३-२०॥
संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च। एवंविधा नरा देवि सर्वे निरयगामिनः ॥१३-१३३-२१॥
ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै। वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ॥१३-१३३-२२॥
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम्। कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ॥१३-१३३-२३॥
न स्तम्भी न च मानी यो देवताद्विजपूजकः। लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् ॥१३-१३३-२४॥
सर्ववर्णप्रियकरः सर्वभूतहितः सदा। अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ॥१३-१३३-२५॥
स्वागतेनैव सर्वेषां भूतानामविहिंसकः। यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति ॥१३-१३३-२६॥
मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन्। अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ॥१३-१३३-२७॥
एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते। ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ॥१३-१३३-२८॥
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः। यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ॥१३-१३३-२९॥
संमतः सर्वभूतानां सर्वलोकनमस्कृतः। स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ॥१३-१३३-३०॥
उदात्तकुलजातीय उदात्ताभिजनः सदा। एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥१३-१३३-३१॥
यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः। हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥१३-१३३-३२॥
लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने। हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ॥१३-१३३-३३॥
उपक्रामति जन्तूंश्च उद्वेगजननः सदा। एवंशीलसमाचारो निरयं प्रतिपद्यते ॥१३-१३३-३४॥
स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात्। बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ॥१३-१३३-३५॥
लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः। एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥१३-१३३-३६॥
अपरः सर्वभूतानि दयावाननुपश्यति। मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥१३-१३३-३७॥
नोद्वेजयति भूतानि न विहिंसयते तथा। हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ॥१३-१३३-३८॥
न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च। उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः ॥१३-१३३-३९॥
एवंशीलसमाचारः स्वर्गे समुपजायते। तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥१३-१३३-४०॥
स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते। अल्पाबाधो निरीतीकः स जातः सुखमेधते ॥१३-१३३-४१॥
सुखभागी निरायासो निरुद्वेगः सदा नरः। एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥१३-१३३-४२॥
उमोवाच॥
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः। ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः ॥ दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ॥१३-१३३-४३॥
केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत्। अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ॥ एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ॥१३-१३३-४४॥
जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा। नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥१३-१३३-४५॥
महेश्वर उवाच॥
ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा। परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ॥१३-१३३-४६॥
वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा। लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा ॥१३-१३३-४७॥
स चेन्मानुषतां याति मेधावी तत्र जायते। श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ॥१३-१३३-४८॥
परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते। तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ॥१३-१३३-४९॥
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम्। रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ॥१३-१३३-५०॥
ये तु मूढा दुराचारा वियोनौ मैथुने रताः। पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥१३-१३३-५१॥
पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः। प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ॥१३-१३३-५२॥
उमोवाच॥
सावद्यं किं नु वै कर्म निरवद्यं तथैव च। श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥१३-१३३-५३॥
महेश्वर उवाच॥
श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान्। धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥१३-१३३-५४॥
यदि मानुषतां देवि कदाचित्स निगच्छति। मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ॥१३-१३३-५५॥
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः। नृणां हितार्थाय तव मया वै समुदाहृतः ॥१३-१३३-५६॥
उमोवाच॥
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः। ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥१३-१३३-५७॥
व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः। अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥१३-१३३-५८॥
यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे। केन कर्मविपाकेन भवन्तीह वदस्व मे ॥१३-१३३-५९॥
महेश्वर उवाच॥
आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः। प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ॥१३-१३३-६०॥
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः। अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ॥१३-१३३-६१॥
ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः। निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥१३-१३३-६२॥
एष देवि मया सर्वः संशयच्छेदनाय ते। कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥१३-१३३-६३॥