Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.136
ब्राह्मणप्रशंसा
युधिष्ठिर उवाच॥
के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च। किमाचारः कीदृशेषु पितामह न रिष्यते ॥१३-१३६-१॥
भीष्म उवाच॥
ब्राह्मणानां परिभवः सादयेदपि देवताः। ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ॥१३-१३६-२॥
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्। ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥१३-१३६-३॥
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः। धनत्यागाभिरामाश्च वाक्संयमरताश्च ये ॥१३-१३६-४॥
रमणीयाश्च भूतानां निधानं च धृतव्रताः। प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ॥१३-१३६-५॥
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्। प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥१३-१३६-६॥
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः। यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः ॥१३-१३६-७॥
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः। पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥१३-१३६-८॥
धुरि ये नावसीदन्ति विषमे सद्गवा इव। पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥१३-१३६-९॥
भोजनादेव ये लोकांस्त्रायन्ते महतो भयात्। दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥१३-१३६-१०॥
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः। गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥१३-१३६-११॥
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः। परावरविशेषज्ञा गन्तारः परमां गतिम् ॥१३-१३६-१२॥
विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः। मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥१३-१३६-१३॥
चन्दने मलपङ्के च भोजनेऽभोजने समाः। समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥१३-१३६-१४॥
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि। शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ॥१३-१३६-१५॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्। लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ॥१३-१३६-१६॥
अपेयः सागरो येषामभिशापान्महात्मनाम्। येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥१३-१३६-१७॥
देवानामपि ये देवाः कारणं कारणस्य च। प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ॥१३-१३६-१८॥
येषां वृद्धश्च बालश्च सर्वः संमानमर्हति। तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥१३-१३६-१९॥
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत्। विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः ॥१३-१३६-२०॥
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्। प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥१३-१३६-२१॥
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति। हविर्यज्ञेषु च वहन्भूय एवाभिशोभते ॥१३-१३६-२२॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु। सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥१३-१३६-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.