Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.137
पवनार्जुनसंवादः
युधिष्ठिर उवाच॥
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप। कं वा कर्मोदयं मत्वा तानर्चसि महामते ॥१३-१३७-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पवनस्य च संवादमर्जुनस्य च भारत ॥१३-१३७-२॥
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः। अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥१३-१३७-३॥
स तु रत्नाकरवतीं सद्वीपां सागराम्बराम्। शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ॥१३-१३७-४॥
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे। क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥१३-१३७-५॥
आराधयामास च तं कृतवीर्यात्मजो मुनिम्। न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ॥१३-१३७-६॥
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्। सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥१३-१३७-७॥
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे। विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत ॥ तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ॥१३-१३७-८॥
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम। तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ॥ अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ॥१३-१३७-९॥
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्। एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥१३-१३७-१०॥
ततः स रथमास्थाय ज्वलनार्कसमद्युतिः। अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया ॥ वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा ॥१३-१३७-११॥
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी। न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ॥ सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ॥१३-१३७-१२॥
अर्जुन उवाच॥
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये। कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ॥१३-१३७-१३॥
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः। त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ॥१३-१३७-१४॥
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्। श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥१३-१३७-१५॥
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्। क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥१३-१३७-१६॥
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा। आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥१३-१३७-१७॥
कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि। विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥१३-१३७-१८॥
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन। देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् ॥१३-१३७-१९॥
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्। न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥१३-१३७-२०॥
अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी। अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥१३-१३७-२१॥
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु। एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ॥१३-१३७-२२॥
अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः। निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ॥१३-१३७-२३॥
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः। वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ॥१३-१३७-२४॥
अर्जुन उवाच॥
अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः। यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ॥१३-१३७-२५॥
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम्। अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा ॥१३-१३७-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.