Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.147
धर्मनिर्णयः
वैशम्पायन उवाच॥
इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने। भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥१३-१४७-१॥
निर्णये वा महाबुद्धे सर्वधर्मभृतां वर। प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥१३-१४७-२॥
भीष्म उवाच॥
नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः। शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ॥१३-१४७-३॥
संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः। दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥१३-१४७-४॥
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः। नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ॥ तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ॥१३-१४७-५॥
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति। शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च ॥ प्राणयात्रामनेकां च कल्पयानेन भारत ॥१३-१४७-६॥
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम्। हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ॥ ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ॥१३-१४७-७॥
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा। अग्राह्यमनिबद्धं च वाचः सम्परिवर्जनम् ॥१३-१४७-८॥
युधिष्ठिर उवाच॥
प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः। शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ॥१३-१४७-९॥
भीष्म उवाच॥
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः। संस्था यत्नैरपि कृता कालेन परिभिद्यते ॥१३-१४७-१०॥
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः। ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥१३-१४७-११॥
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः। धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥१३-१४७-१२॥
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः। परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ॥१३-१४७-१३॥
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ। धर्म इत्येव सम्बुद्धास्तानुपास्स्व च पृच्छ च ॥१३-१४७-१४॥
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः। आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ॥१३-१४७-१५॥
युधिष्ठिर उवाच॥
पुनरेवेह मे बुद्धिः संशये परिमुह्यते। अपारे मार्गमाणस्य परं तीरमपश्यतः ॥१३-१४७-१६॥
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि। पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥१३-१४७-१७॥
भीष्म उवाच॥
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः। यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥१३-१४७-१८॥
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम्। पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ॥१३-१४७-१९॥
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर। जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ॥१३-१४७-२०॥
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः। अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ॥१३-१४७-२१॥
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्। अजातशत्रो सेवस्व धर्म एष सनातनः ॥१३-१४७-२२॥
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता। तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ॥१३-१४७-२३॥
प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः। न स प्रमाणतामर्हो विवादजननो हि सः ॥१३-१४७-२४॥
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च। एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥१३-१४७-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.