13.146
वासुदेव उवाच॥
युधिष्ठिर महाबाहो महाभाग्यं महात्मनः। रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥१३-१४६-१॥
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्। एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥१३-१४६-२॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः। घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥१३-१४६-३॥
उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः। शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ॥१३-१४६-४॥
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ। ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ॥१३-१४६-५॥
यास्य घोरतमा मूर्तिर्जगत्संहरते तया। ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥१३-१४६-६॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्। मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥१३-१४६-७॥
देवानां सुमहान्यच्च यच्चास्य विषयो महान्। यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥१३-१४६-८॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः। शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥१३-१४६-९॥
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत्। स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥१३-१४६-१०॥
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा। स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥१३-१४६-११॥
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते। विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥१३-१४६-१२॥
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा। चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ॥१३-१४६-१३॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः। तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥१३-१४६-१४॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्। महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ॥१३-१४६-१५॥
विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः। लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥१३-१४६-१६॥
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा। लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ॥१३-१४६-१७॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः। सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥१३-१४६-१८॥
एष एव श्मशानेषु देवो वसति नित्यशः। यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ॥१३-१४६-१९॥
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह। स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् ॥१३-१४६-२०॥
तस्य घोराणि रूपाणि दीप्तानि च बहूनि च। लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥१३-१४६-२१॥
नामधेयानि वेदेषु बहून्यस्य यथार्थतः। निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥१३-१४६-२२॥
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्। व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ॥१३-१४६-२३॥
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्। ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥१३-१४६-२४॥
प्रथमो ह्येष देवानां मुखादग्निरजायत। ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥१३-१४६-२५॥
स मोचयति पुण्यात्मा शरण्यः शरणागतान्। आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥१३-१४६-२६॥
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः। शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥१३-१४६-२७॥
स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे। ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥१३-१४६-२८॥
महेश्वरश्च लोकानां महतामीश्वरश्च सः। बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ॥ तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥१३-१४६-२९॥