Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.148
युधिष्ठिर उवाच॥
ये च धर्ममसूयन्ति ये चैनं पर्युपासते। ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः ॥१३-१४८-१॥
भीष्म उवाच॥
रजसा तमसा चैव समवस्तीर्णचेतसः। नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ॥१३-१४८-२॥
ये तु धर्मं महाराज सततं पर्युपासते। सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ॥१३-१४८-३॥
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्। देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥१३-१४८-४॥
मनुष्या यदि वा देवाः शरीरमुपताप्य वै। धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥१३-१४८-५॥
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः। धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः ॥१३-१४८-६॥
युधिष्ठिर उवाच॥
असतां कीदृशं रूपं साधवः किं च कुर्वते। ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥१३-१४८-७॥
भीष्म उवाच॥
दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः। साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ॥१३-१४८-८॥
राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः। नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥१३-१४८-९॥
पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः। न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥१३-१४८-१०॥
चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्। ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ॥१३-१४८-११॥
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च। ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते ॥१३-१४८-१२॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च। तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥१३-१४८-१३॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्। नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥१३-१४८-१४॥
होमकाले यथा वह्निः कालमेव प्रतीक्षते। ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ॥ न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् ॥१३-१४८-१५॥
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः। तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ॥१३-१४८-१६॥
यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति। पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥१३-१४८-१७॥
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्। कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ॥१३-१४८-१८॥
गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च। गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥१३-१४८-१९॥
वृद्धान्नातिवदेज्जातु न च सम्प्रेषयेदपि। नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥१३-१४८-२०॥
न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि। मैथुनं सततं गुप्तमाहारं च समाचरेत् ॥१३-१४८-२१॥
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि। दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ॥१३-१४८-२२॥
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः। श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥१३-१४८-२३॥
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्। यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ॥१३-१४८-२४॥
संस्कृतं पायसं नित्यं यवागूं कृसरं हविः। अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् ॥१३-१४८-२५॥
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्। व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् ॥१३-१४८-२६॥
न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम्। त्वङ्कारो वा वधो वेति विद्वत्सु न विशिष्यते ॥ अवराणां समानानां शिष्याणां च समाचरेत् ॥१३-१४८-२७॥
पापमाचक्षते नित्यं हृदयं पापकर्मिणाम्। ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥१३-१४८-२८॥
ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः। न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ॥ पापेनाभिहतः पापः पापमेवाभिजायते ॥१३-१४८-२९॥
यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते। धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ॥१३-१४८-३०॥
यथा लवणमम्भोभिराप्लुतं प्रविलीयते। प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥१३-१४८-३१॥
तस्मात्पापं न गूहेत गूहमानं विवर्धते। कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ॥१३-१४८-३२॥
आशया सञ्चितं द्रव्यं यत्काले नोपभुज्यते। अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥१३-१४८-३३॥
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः। तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥१३-१४८-३४॥
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्। धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥१३-१४८-३५॥
अर्चेद्देवानदम्भेन सेवेतामायया गुरून्। निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् ॥१३-१४८-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.