Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.154
भीष्मस्वर्गगमनम्
वैशम्पायन उवाच॥
एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा। तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥१३-१५४-१॥
धारयामास चात्मानं धारणासु यथाक्रमम्। तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ॥१३-१५४-२॥
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्। यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा ॥ तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥१३-१५४-३॥
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा। तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ॥ सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥१३-१५४-४॥
संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै। जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ॥१३-१५४-५॥
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप। निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ॥१३-१५४-६॥
एवं स नृपशार्दूल नृपः शान्तनवस्तदा। समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥१३-१५४-७॥
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून्। चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ॥ युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ॥१३-१५४-८॥
युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः। छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥१३-१५४-९॥
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्। चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ॥ उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ॥१३-१५४-१०॥
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम्। तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ॥१३-१५४-११॥
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः। याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ॥१३-१५४-१२॥
ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि। कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ॥१३-१५४-१३॥
समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम्। अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ॥१३-१५४-१४॥
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः। जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ॥१३-१५४-१५॥
अनुगम्यमाना व्यासेन नारदेनासितेन च। कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥१३-१५४-१६॥
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः। विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥१३-१५४-१७॥
ततो भागीरथी देवी तनयस्योदके कृते। उत्थाय सलिलात्तस्माद्रुदती शोकलालसा ॥१३-१५४-१८॥
परिदेवयती तत्र कौरवानभ्यभाषत। निबोधत यथावृत्तमुच्यमानं मयानघाः ॥१३-१५४-१९॥
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च। सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥१३-१५४-२०॥
जामदग्न्येन रामेण पुरा यो न पराजितः। दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥१३-१५४-२१॥
अश्मसारमयं नूनं हृदयं मम पार्थिवाः। अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ॥१३-१५४-२२॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे। विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ॥१३-१५४-२३॥
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन। हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥१३-१५४-२४॥
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना। पीडितो नातियत्नेन निहतः स शिखण्डिना ॥१३-१५४-२५॥
एवंविधं बहु तदा विलपन्तीं महानदीम्। आश्वासयामास तदा साम्ना दामोदरो विभुः ॥१३-१५४-२६॥
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने। गतः स परमां सिद्धिं तव पुत्रो न संशयः ॥१३-१५४-२७॥
वसुरेष महातेजाः शापदोषेण शोभने। मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ॥१३-१५४-२८॥
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे। धनञ्जयेन निहतो नैष नुन्नः शिखण्डिना ॥१३-१५४-२९॥
भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे। न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥१३-१५४-३०॥
स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने। न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ॥१३-१५४-३१॥
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम्। वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥१३-१५४-३२॥
इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा। त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥१३-१५४-३३॥
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः। अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥१३-१५४-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.