13.153
भीष्मस्वर्गारोहणपर्व
भीष्मस्वर्गानुज्ञा
वैशम्पायन उवाच॥
ततः कुन्तीसुतो राजा पौरजानपदं जनम्। पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥१३-१५३-१॥
सान्त्वयामास नारीश्च हतवीरा हतेश्वराः। विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ॥१३-१५३-२॥
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः। अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ॥१३-१५३-३॥
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः। प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ॥१३-१५३-४॥
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे। समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥१३-१५३-५॥
स निर्ययौ गजपुराद्याजकैः परिवारितः। दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥१३-१५३-६॥
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः। चन्दनागरुमुख्यानि तथा कालागरूणि च ॥१३-१५३-७॥
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै। माल्यानि च महार्हाणि रत्नानि विविधानि च ॥१३-१५३-८॥
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम्। मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः ॥१३-१५३-९॥
जनार्दनेनानुगतो विदुरेण च धीमता। युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ॥१३-१५३-१०॥
महता राजभोग्येन परिबर्हेण संवृतः। स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् ॥१३-१५३-११॥
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा। आससाद कुरुक्षेत्रे ततः शान्तनवं नृपम् ॥१३-१५३-१२॥
उपास्यमानं व्यासेन पाराशर्येण धीमता। नारदेन च राजर्षे देवलेनासितेन च ॥१३-१५३-१३॥
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः। रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥१३-१५३-१४॥
शयानं वीरशयने ददर्श नृपतिस्ततः। ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ॥१३-१५३-१५॥
अभिवाद्याथ कौन्तेयः पितामहमरिंदमम्। द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥१३-१५३-१६॥
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः। आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥१३-१५३-१७॥
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः। भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ॥१३-१५३-१८॥
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत। शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥१३-१५३-१९॥
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो। आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ॥१३-१५३-२०॥
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः। उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥१३-१५३-२१॥
हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः। तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ॥१३-१५३-२२॥
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया। यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥१३-१५३-२३॥
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता। ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य तम् ॥१३-१५३-२४॥
ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम्। ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् ॥१३-१५३-२५॥
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर। परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ॥१३-१५३-२६॥
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः। शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥१३-१५३-२७॥
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर। त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥१३-१५३-२८॥
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्। धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥१३-१५३-२९॥
राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः। बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥१३-१५३-३०॥
वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर। वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे ॥१३-१५३-३१॥
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा। श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥१३-१५३-३२॥
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः। तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥१३-१५३-३३॥
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव। आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥१३-१५३-३४॥
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः। ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥१३-१५३-३५॥
वैशम्पायन उवाच॥
एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्। वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥१३-१५३-३६॥
भगवन्देवदेवेश सुरासुरनमस्कृत। त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ॥१३-१५३-३७॥
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम। रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् ॥१३-१५३-३८॥
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा। यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥१३-१५३-३९॥
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः। सन्धानस्य परः कालस्तवेति च पुनः पुनः ॥१३-१५३-४०॥
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः। घातयित्वेह पृथिवीं ततः स निधनं गतः ॥१३-१५३-४१॥
त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम्। नरेण सहितं देवं बदर्यां सुचिरोषितम् ॥१३-१५३-४२॥
तथा मे नारदः प्राह व्यासश्च सुमहातपाः। नरनारायणावेतौ सम्भूतौ मनुजेष्विति ॥१३-१५३-४३॥
वासुदेव उवाच॥
अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव। न तेऽस्ति वृजिनं किञ्चिन्मया दृष्टं महाद्युते ॥१३-१५३-४४॥
पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः। तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥१३-१५३-४५॥
वैशम्पायन उवाच॥
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्। धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ॥१३-१५३-४६॥
प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ। सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् ॥१३-१५३-४७॥
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः। ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ॥१३-१५३-४८॥
इत्युक्त्वा सुहृदः सर्वान्सम्परिष्वज्य चैव ह। पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥१३-१५३-४९॥
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः। आचार्या ऋत्विजश्चैव पूजनीया नराधिप ॥१३-१५३-५०॥