14.001
युधिष्ठिरसांत्वनम्
वैशम्पायन उवाच॥
कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः। पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥१४-१-१॥
उत्तीर्य च महीपालो बाष्पव्याकुललोचनः। पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ॥१४-१-२॥
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः। मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ॥१४-१-३॥
तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः। ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ॥१४-१-४॥
तं दृष्ट्वा दीनमनसं गतसत्त्वं जनेश्वरम्। भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन् ॥१४-१-५॥
राजा च धृतराष्ट्रस्तमुपासीनो महाभुजः। वाक्यमाह महाप्राज्ञो महाशोकप्रपीडितम् ॥१४-१-६॥
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्। क्षत्रधर्मेण कौरव्य जितेयमवनिस्त्वया ॥१४-१-७॥
तां भुङ्क्ष्व भ्रातृभिः सार्धं सुहृद्भिश्च जनेश्वर। न शोचितव्यं पश्यामि त्वया धर्मभृतां वर ॥१४-१-८॥
शोचितव्यं मया चैव गान्धार्या च विशां पते। पुत्रैर्विहीनो राज्येन स्वप्नलब्धधनो यथा ॥१४-१-९॥
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः। वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः ॥१४-१-१०॥
उक्तवानेष मां पूर्वं धर्मात्मा दिव्यदर्शनः। दुर्योधनापराधेन कुलं ते विनशिष्यति ॥१४-१-११॥
स्वस्ति चेदिच्छसे राजन्कुलस्यात्मन एव च। वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः ॥१४-१-१२॥
कर्णश्च शकुनिश्चैव मैनं पश्यतु कर्हिचित्। द्यूतसम्पातमप्येषामप्रमत्तो निवारय ॥१४-१-१३॥
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्। स पालयिष्यति वशी धर्मेण पृथिवीमिमाम् ॥१४-१-१४॥
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्। मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव ॥१४-१-१५॥
समं सर्वेषु भूतेषु वर्तमानं नराधिप। अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धन ॥१४-१-१६॥
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि। दुर्योधनमहं पापमन्ववर्तं वृथामतिः ॥१४-१-१७॥
अश्रुत्वा ह्यस्य वीरस्य वाक्यानि मधुराण्यहम्। फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे ॥१४-१-१८॥
वृद्धौ हि ते स्वः पितरौ पश्यावां दुःखितौ नृप। न शोचितव्यं भवता पश्यामीह जनाधिप ॥१४-१-१९॥