Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.002
व्यासवाक्यम्
वैशम्पायन उवाच॥
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता। तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ॥१४-२-१॥
अतीव मनसा शोकः क्रियमाणो जनाधिप। सन्तापयति वैतस्य पूर्वप्रेतान्पितामहान् ॥१४-२-२॥
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः। देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥१४-२-३॥
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते। विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥१४-२-४॥
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात्। कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥१४-२-५॥
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्। पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह ॥१४-२-६॥
युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम्। न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ॥१४-२-७॥
त्यज शोकं महाराज भवितव्यं हि तत्तथा। न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः ॥१४-२-८॥
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम्। विरराम महातेजास्तमुवाच युधिष्ठिरः ॥१४-२-९॥
गोविन्द मयि या प्रीतिस्तव सा विदिता मम। सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे ॥१४-२-१०॥
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर। श्रीमन्प्रीतेन मनसा सर्वं यावदनन्दन ॥१४-२-११॥
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम्। न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् ॥ कर्णं च पुरुषव्याघ्रं सङ्ग्रामेष्वपलायिनम् ॥१४-२-१२॥
कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम। कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ॥१४-२-१३॥
तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित्। सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥१४-२-१४॥
अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे। किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः ॥१४-२-१५॥
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका। यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ॥१४-२-१६॥
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः। असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ॥१४-२-१७॥
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्। मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥१४-२-१८॥
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ। युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥१४-२-१९॥
स कथं सर्वधर्मज्ञः सर्वागमविशारदः। परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥१४-२-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.