14.007
संवर्त उवाच॥
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते। एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ॥१४-७-१॥
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः। मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ॥१४-७-२॥
मरुत्त उवाच॥
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि। गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥१४-७-३॥
संवर्त उवाच॥
सत्यमेतद्भवानाह स मां जानाति सत्रिणम्। कथयस्वैतदेकं मे क्व नु सम्प्रति नारदः ॥१४-७-४॥
मरुत्त उवाच॥
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः। ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥१४-७-५॥
व्यास उवाच॥
श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा। एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ॥१४-७-६॥
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव। रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत् ॥१४-७-७॥
वातप्रधानेन मया स्वचित्तवशवर्तिना। एवं विकृतरूपेण कथं याजितुमिच्छसि ॥१४-७-८॥
भ्राता मम समर्थश्च वासवेन च सत्कृतः। वर्तते याजने चैव तेन कर्माणि कारय ॥१४-७-९॥
गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः। पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥१४-७-१०॥
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्। याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम ॥१४-७-११॥
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज। ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥१४-७-१२॥
मरुत्त उवाच॥
बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु। न मां कामयते याज्यमसौ वासववारितः ॥१४-७-१३॥
अमरं याज्यमासाद्य मामृषे मा स्म मानुषम्। याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ॥१४-७-१४॥
स्पर्धते च मया विप्र सदा वै स हि पार्थिवः। एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ॥१४-७-१५॥
स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति। देवराजमुपाश्रित्य तद्विद्धि मुनिपुङ्गव ॥१४-७-१६॥
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्। कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥१४-७-१७॥
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम्। प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ॥१४-७-१८॥
संवर्त उवाच॥
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम्। यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥१४-७-१९॥
याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ। द्विषेतां समभिक्रुद्धावेतदेकं समर्थय ॥१४-७-२०॥
स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु। कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ॥१४-७-२१॥
मरुत्त उवाच॥
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः। तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ॥१४-७-२२॥
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्। सम्यग्ज्ञाने वैषये वा त्यजेयं सङ्गतं यदि ॥१४-७-२३॥
संवर्त उवाच॥
आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु। याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव ॥१४-७-२४॥
संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्। येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ॥१४-७-२५॥
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः। विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः ॥१४-७-२६॥
गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम्। प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥१४-७-२७॥