Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.006
व्यास उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादं मरुत्तस्य च भारत ॥१४-६-१॥
देवराजस्य समयं कृतमाङ्गिरसेन ह। श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्तदा ॥१४-६-२॥
सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः। बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥१४-६-३॥
भगवन्यन्मया पूर्वमभिगम्य तपोधन। कृतोऽभिसन्धिर्यज्ञाय भवतो वचनाद्गुरो ॥१४-६-४॥
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे। याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥१४-६-५॥
बृहस्पतिरुवाच॥
न कामये याजयितुं त्वामहं पृथिवीपते। वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥१४-६-६॥
मरुत्त उवाच॥
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम्। न चास्म्ययाज्यतां प्राप्तो भजमानं भजस्व माम् ॥१४-६-७॥
बृहस्पतिरुवाच॥
अमर्त्यं याजयित्वाहं याजयिष्ये न मानुषम्। मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात् ॥१४-६-८॥
न त्वां याजयितास्म्यद्य वृणु त्वं यमिहेच्छसि। उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥१४-६-९॥
व्यास उवाच॥
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्। प्रत्यागच्छच्च संविग्नो ददर्श पथि नारदम् ॥१४-६-१०॥
देवर्षिणा समागम्य नारदेन स पार्थिवः। विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥१४-६-११॥
राजर्षे नातिहृष्टोऽसि कच्चित्क्षेमं तवानघ। क्व गतोऽसि कुतो वेदमप्रीतिस्थानमागतम् ॥१४-६-१२॥
श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ। व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥१४-६-१३॥
एवमुक्तो मरुत्तस्तु नारदेन महर्षिणा। विप्रलम्भमुपाध्यायात्सर्वमेव न्यवेदयत् ॥१४-६-१४॥
गतोऽस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्। यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत ॥१४-६-१५॥
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये। परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥१४-६-१६॥
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह। आविक्षितं महाराज वाचा सञ्जीवयन्निव ॥१४-६-१७॥
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः। चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥१४-६-१८॥
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः। प्रसन्नस्त्वां महाराज संवर्तो याजयिष्यति ॥१४-६-१९॥
मरुत्त उवाच॥
सञ्जीवितोऽहं भवता वाक्येनानेन नारद। पश्येयं क्व नु संवर्तं शंस मे वदतां वर ॥१४-६-२०॥
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्। प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥१४-६-२१॥
नारद उवाच॥
उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम्। वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥१४-६-२२॥
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्। तं दृष्ट्वा यो निवर्तेत स संवर्तो महीपते ॥१४-६-२३॥
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान्। तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥१४-६-२४॥
पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह। ब्रूयास्त्वं नारदेनेति सन्तप्त इव शत्रुहन् ॥१४-६-२५॥
स चेत्त्वामनुयुञ्जीत ममाभिगमनेप्सया। शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥१४-६-२६॥
व्यास उवाच॥
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्। अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥१४-६-२७॥
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः। कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥१४-६-२८॥
यौगपद्येन विप्रश्च स पुरीद्वारमाविशत्। ततः स कुणपं दृष्ट्वा सहसा स न्यवर्तत ॥१४-६-२९॥
स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात्। आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥१४-६-३०॥
स एनं विजने दृष्ट्वा पांसुभिः कर्दमेन च। श्लेष्मणा चापि राजानं ष्ठीवनैश्च समाकिरत् ॥१४-६-३१॥
स तथा बाध्यमानोऽपि संवर्तेन महीपतिः। अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ॥१४-६-३२॥
ततो निवृत्य संवर्तः परिश्रान्त उपाविशत्। शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥१४-६-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.