14.008
संवर्त उवाच॥
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः। तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥१४-८-१॥
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च। गुहासु शैलराजस्य यथाकामं यथासुखम् ॥१४-८-२॥
उमासहायो भगवान्यत्र नित्यं महेश्वरः। आस्ते शूली महातेजा नानाभूतगणावृतः ॥१४-८-३॥
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा। यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥१४-८-४॥
भूतानि च पिशाचाश्च नासत्यावश्विनावपि। गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥१४-८-५॥
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः। उपासन्ते महात्मानं बहुरूपमुमापतिम् ॥१४-८-६॥
रमते भगवांस्तत्र कुबेरानुचरैः सह। विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ॥ श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥१४-८-७॥
न रूपं दृश्यते तस्य संस्थानं वा कथञ्चन। निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥१४-८-८॥
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः। न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥१४-८-९॥
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर। धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥१४-८-१०॥
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः। चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥१४-८-११॥
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे। रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥१४-८-१२॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च। त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥१४-८-१३॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च। क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥१४-८-१४॥
हरिकेशाय मुण्डाय कृशायोत्तारणाय च। भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥१४-८-१५॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे। गिरिशाय प्रशान्ताय यतये चीरवाससे ॥१४-८-१६॥
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च। मृगव्याधाय महते धन्विनेऽथ भवाय च ॥१४-८-१७॥
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे। हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥१४-८-१८॥
पशूनां पतये चैव भूतानां पतये तथा। वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥१४-८-१९॥
स्रुवहस्ताय पतये धन्विने भार्गवाय च। अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥१४-८-२०॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च। महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥१४-८-२१॥
तथा शुक्राधिपतये पृथवे कृत्तिवाससे। कपालमालिने नित्यं सुवर्णमुकुटाय च ॥१४-८-२२॥
महादेवाय कृष्णाय त्र्यम्बकायानघाय च। क्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥१४-८-२३॥
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे। सहस्रशिरसे चैव सहस्रचरणाय च ॥ नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥१४-८-२४॥
पिनाकिनं महादेवं महायोगिनमव्ययम्। त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥१४-८-२५॥
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्। प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥१४-८-२६॥
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम्। उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥१४-८-२७॥
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम्। उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥१४-८-२८॥
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम्। विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥१४-८-२९॥
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्। शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥१४-८-३०॥
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे। महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ॥ सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥१४-८-३१॥
व्यास उवाच॥
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः। ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ॥ सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः ॥१४-८-३२॥
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः। समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम् ॥१४-८-३३॥
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्। भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥१४-८-३४॥
तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम्। अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥१४-८-३५॥