14.012
वासुदेव उवाच॥
द्विविधो जायते व्याधिः शारीरो मानसस्तथा। परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥१४-१२-१॥
शरीरे जायते व्याधिः शारीरो नात्र संशयः। मानसो जायते व्याधिर्मनस्येवेति निश्चयः ॥१४-१२-२॥
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः। तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥१४-१२-३॥
सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः। तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥ तेषामन्यतमोत्सेके विधानमुपदिश्यते ॥१४-१२-४॥
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते। कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥ कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥१४-१२-५॥
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा। स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम् ॥१४-१२-६॥
अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे। दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ॥ मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि ॥१४-१२-७॥
प्रव्राजनं च नगरादजिनैश्च विवासनम्। महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥१४-१२-८॥
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः। सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥१४-१२-९॥
पुनरज्ञातचर्यायां कीचकेन पदा वधः। याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ॥१४-१२-१०॥
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम। मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ॥१४-१२-११॥
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः। यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ॥ आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥१४-१२-१२॥
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि। एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥१४-१२-१३॥
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्। पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥१४-१२-१४॥