Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.013
वासुदेव उवाच॥
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत। शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥१४-१३-१॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः। यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ॥१४-१३-२॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्। ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥१४-१३-३॥
ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ। अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥१४-१३-४॥
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत। भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥१४-१३-५॥
लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम्। ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥१४-१३-६॥
अथ वा वसतः पार्थ वने वन्येन जीवतः। ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ॥१४-१३-७॥
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत। यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥१४-१३-८॥
कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः। दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि ॥१४-१३-९॥
व्रतं यज्ञान्नियमान्ध्यानयोगा; न्कामेन यो नारभते विदित्वा। यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम् ॥१४-१३-१०॥
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः। शृणु सङ्कीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥१४-१३-११॥
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्। यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ॥ तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥१४-१३-१२॥
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः। जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥१४-१३-१३॥
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः। स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥१४-१३-१४॥
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः। भावो भवामि तस्याहं स च मां नावबुध्यते ॥१४-१३-१५॥
यो मां प्रयतते हन्तुं तपसा संशितव्रतः। ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥१४-१३-१६॥
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः। तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ॥ अवध्यः सर्वभूतानामहमेकः सनातनः ॥१४-१३-१७॥
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः। धर्मं कुरु महाराज तत्र ते स भविष्यति ॥१४-१३-१८॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता। अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥१४-१३-१९॥
मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः। न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ॥१४-१३-२०॥
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः। लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ॥१४-१३-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.