Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.011
वासुदेववाक्यम्
वैशम्पायन उवाच॥
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा। वासुदेवो महातेजास्ततो वचनमाददे ॥१४-११-१॥
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्। उपप्लुतमिवादित्यं सधूममिव पावकम् ॥१४-११-२॥
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः। आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥१४-११-३॥
वासुदेव उवाच॥
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्। एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥१४-११-४॥
नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः। कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे ॥१४-११-५॥
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्। इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ॥१४-११-६॥
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप। दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते ॥ धराहरणदुर्गन्धो विषयः समपद्यत ॥१४-११-७॥
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते। वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् ॥१४-११-८॥
स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा। विवेश सहसैवापो जग्राह विषयं ततः ॥१४-११-९॥
व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते। शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् ॥१४-११-१०॥
स वध्यमानो वज्रेण सलिले भूरितेजसा। विवेश सहसा ज्योतिर्जग्राह विषयं ततः ॥१४-११-११॥
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते। शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥१४-११-१२॥
स वध्यमानो वज्रेण सुभृशं भूरितेजसा। विवेश सहसा वायुं जग्राह विषयं ततः ॥१४-११-१३॥
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते। शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥१४-११-१४॥
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा। आकाशमभिदुद्राव जग्राह विषयं ततः ॥१४-११-१५॥
आकाशे वृत्रभूते च शब्दे च विषये हृते। शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥१४-११-१६॥
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा। विवेश सहसा शक्रं जग्राह विषयं ततः ॥१४-११-१७॥
तस्य वृत्रगृहीतस्य मोहः समभवन्महान्। रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत् ॥१४-११-१८॥
ततो वृत्रं शरीरस्थं जघान भरतर्षभ। शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ॥१४-११-१९॥
इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु। ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप ॥१४-११-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.