Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.017
वासुदेव उवाच॥
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान्। पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः ॥१४-१७-१॥
काश्यप उवाच॥
कथं शरीरं च्यवते कथं चैवोपपद्यते। कथं कष्टाच्च संसारात्संसरन्परिमुच्यते ॥१४-१७-२॥
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति। शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥१४-१७-३॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः। उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥१४-१७-४॥
ब्राह्मण उवाच॥
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत। आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥१४-१७-५॥
सिद्ध उवाच॥
आयुःकीर्तिकराणीह यानि कर्माणि सेवते। शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥१४-१७-६॥
आयुःक्षयपरीतात्मा विपरीतानि सेवते। बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥१४-१७-७॥
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा। अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥१४-१७-८॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते। अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन ॥१४-१७-९॥
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च। गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः ॥१४-१७-१०॥
व्यायाममतिमात्रं वा व्यवायं चोपसेवते। सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम् ॥१४-१७-११॥
रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते। अपक्वानागते काले स्वयं दोषान्प्रकोपयन् ॥१४-१७-१२॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्। अथ चोद्बन्धनादीनि परीतानि व्यवस्यति ॥१४-१७-१३॥
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा। जीवितं प्रोच्यमानं तद्यथावदुपधारय ॥१४-१७-१४॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः। शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै ॥१४-१७-१५॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः। भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च ॥१४-१७-१६॥
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन्। शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु ॥ वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम ॥१४-१७-१७॥
जातीमरणसंविग्नाः सततं सर्वजन्तवः। दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ ॥१४-१७-१८॥
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे। तादृशीमेव लभते वेदनां मानवः पुनः ॥१४-१७-१९॥
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः। यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति ॥ शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः ॥१४-१७-२०॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः। स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् ॥१४-१७-२१॥
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते। निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः ॥१४-१७-२२॥
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः। स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् ॥ तैरेव न विजानाति प्राणमाहारसम्भवम् ॥१४-१७-२३॥
तत्रैव कुरुते काये यः स जीवः सनातनः। तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ॥ तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥१४-१७-२४॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्। आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ॥ ततः स चेतनो जन्तुर्नाभिजानाति किञ्चन ॥१४-१७-२५॥
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु। स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥१४-१७-२६॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्। निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥१४-१७-२७॥
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः। अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥१४-१७-२८॥
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः। इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥१४-१७-२९॥
यथान्धकारे खद्योतं लीयमानं ततस्ततः। चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥१४-१७-३०॥
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा। च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥१४-१७-३१॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः। कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥१४-१७-३२॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः। इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥१४-१७-३३॥
इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः। अवाक्स निरये पापो मानवः पच्यते भृशम् ॥ तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥१४-१७-३४॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः। कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ॥ तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ॥१४-१७-३५॥
तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम्। यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ॥ स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥१४-१७-३६॥
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः। तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥१४-१७-३७॥
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम्। इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥१४-१७-३८॥
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम्। यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥१४-१७-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.