Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.018
ब्राह्मण उवाच॥
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्। प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥१४-१८-१॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु। तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥१४-१८-२॥
पापं चापि तथैव स्यात्पापेन मनसा कृतम्। पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥१४-१८-३॥
यथा कर्मसमादिष्टं काममन्युसमावृतः। नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥१४-१८-४॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्। क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥१४-१८-५॥
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते। सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ॥ तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥१४-१८-६॥
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः। दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ॥ ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥१४-१८-७॥
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम्। उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥१४-१८-८॥
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन्। तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥१४-१८-९॥
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्। एवमेव शरीराणि प्रकाशयति चेतना ॥१४-१८-१०॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम्। पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥१४-१८-११॥
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते। यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥१४-१८-१२॥
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै। आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥१४-१८-१३॥
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्। दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥१४-१८-१४॥
संयमश्चानृशंस्यं च परस्वादानवर्जनम्। व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥१४-१८-१५॥
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्। गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥१४-१८-१६॥
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते। ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥१४-१८-१७॥
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः। आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥१४-१८-१८॥
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः। यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥१४-१८-१९॥
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु। यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥१४-१८-२०॥
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा। संसारतारणं ह्यस्य कालेन महता भवेत् ॥१४-१८-२१॥
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते। सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥१४-१८-२२॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्। इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥१४-१८-२३॥
शरीरमात्मनः कृत्वा सर्वभूतपितामहः। त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥१४-१८-२४॥
ततः प्रधानमसृजच्चेतना सा शरीरिणाम्। यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥१४-१८-२५॥
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्। त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥१४-१८-२६॥
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः। स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥१४-१८-२७॥
तस्य कालपरीमाणमकरोत्स पितामहः। भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥१४-१८-२८॥
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि। यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥१४-१८-२९॥
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति। कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम् ॥१४-१८-३०॥
यच्च किञ्चित्सुखं तच्च सर्वं दुःखमिति स्मरन्। संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥१४-१८-३१॥
जातीमरणरोगैश्च समाविष्टः प्रधानवित्। चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥१४-१८-३२॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्। तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥१४-१८-३३॥
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम्। प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥१४-१८-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.