14.016
अनुगीता
जनमेजय उवाच॥
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः। केशवार्जुनयोः का नु कथा समभवद्द्विज ॥१४-१६-१॥
वैशम्पायन उवाच॥
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम्। तस्यां सभायां रम्यायां विजहार मुदा युतः ॥१४-१६-२॥
ततः कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप। यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ ॥१४-१६-३॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः। निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् ॥१४-१६-४॥
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते। माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम् ॥१४-१६-५॥
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात्। तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः ॥१४-१६-६॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो। भवांश्च द्वारकां गन्ता नचिरादिव माधव ॥१४-१६-७॥
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत। परिष्वज्य महातेजा वचनं वदतां वरः ॥१४-१६-८॥
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्। धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् ॥१४-१६-९॥
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम्। नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव ॥१४-१६-१०॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने। न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः ॥१४-१६-११॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया। इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् ॥१४-१६-१२॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि। शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥१४-१६-१३॥
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम। ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् ॥१४-१६-१४॥
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ। दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् ॥१४-१६-१५॥
ब्राह्मण उवाच॥
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि। भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो ॥१४-१६-१६॥
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन। शृणुष्वावहितो भूत्वा गदतो मम माधव ॥१४-१६-१७॥
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः। आससाद द्विजं कञ्चिद्धर्माणामागतागमम् ॥१४-१६-१८॥
गतागते सुबहुशो ज्ञानविज्ञानपारगम्। लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः ॥१४-१६-१९॥
जातीमरणतत्त्वज्ञं कोविदं पुण्यपापयोः। द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् ॥१४-१६-२०॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्। दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः ॥१४-१६-२१॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः। तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह ॥१४-१६-२२॥
सम्भाषमाणमेकान्ते समासीनं च तैः सह। यदृच्छया च गच्छन्तमसक्तं पवनं यथा ॥१४-१६-२३॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः। चरणौ धर्मकामो वै तपस्वी सुसमाहितः ॥ प्रतिपेदे यथान्यायं भक्त्या परमया युतः ॥१४-१६-२४॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्। परिचारेण महता गुरुं वैद्यमतोषयत् ॥१४-१६-२५॥
प्रीतात्मा चोपपन्नश्च श्रुतचारित्रसंयुतः। भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः ॥१४-१६-२६॥
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः। सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन ॥१४-१६-२७॥
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः। गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् ॥१४-१६-२८॥
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः। स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः ॥१४-१६-२९॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्। काममन्युपरीतेन तृष्णया मोहितेन च ॥१४-१६-३०॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः। आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ॥१४-१६-३१॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः। सुखानि च विचित्राणि दुःखानि च मयानघ ॥१४-१६-३२॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह। धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ॥१४-१६-३३॥
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा। शारीरा मानसाश्चापि वेदना भृशदारुणाः ॥१४-१६-३४॥
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः। पतनं निरये चैव यातनाश्च यमक्षये ॥१४-१६-३५॥
जरा रोगाश्च सततं वासनानि च भूरिशः। लोकेऽस्मिन्ननुभूतानि द्वंद्वजानि भृशं मया ॥१४-१६-३६॥
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च। लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया ॥ ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया ॥१४-१६-३७॥
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्। आ सिद्धेरा प्रजासर्गादात्मनो मे गतिः शुभा ॥१४-१६-३८॥
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा। इतः परं गमिष्यामि ततः परतरं पुनः ॥ ब्रह्मणः पदमव्यग्रं मा ते भूदत्र संशयः ॥१४-१६-३९॥
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप। प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते ॥१४-१६-४०॥
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः। अभिजाने च तदहं यदर्थं मा त्वमागतः ॥ अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् ॥१४-१६-४१॥
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण। परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् ॥१४-१६-४२॥
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च। येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप ॥१४-१६-४३॥