Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.019
ब्राह्मण उवाच॥
यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन्। पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥१४-१९-१॥
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः। व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥१४-१९-२॥
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः। अमानी निरभीमानः सर्वतो मुक्त एव सः ॥१४-१९-३॥
जीवितं मरणं चोभे सुखदुःखे तथैव च। लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥१४-१९-४॥
न कस्यचित्स्पृहयते नावजानाति किञ्चन। निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥१४-१९-५॥
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित्। त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥१४-१९-६॥
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः। धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥१४-१९-७॥
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्। अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ॥१४-१९-८॥
वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः। आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥१४-१९-९॥
अगन्धरसमस्पर्शमशब्दमपरिग्रहम्। अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥१४-१९-१०॥
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम्। अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥१४-१९-११॥
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान्। शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥१४-१९-१२॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्। परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥१४-१९-१३॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्। यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥१४-१९-१४॥
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे। यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥१४-१९-१५॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्। तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥१४-१९-१६॥
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः। मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥१४-१९-१७॥
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि। तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥१४-१९-१८॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः। तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥१४-१९-१९॥
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति। तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥१४-१९-२०॥
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत्। योगी निष्कृष्टमात्मानं तथा सम्पश्यते तनौ ॥१४-१९-२१॥
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम्। एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥१४-१९-२२॥
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत्। तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥१४-१९-२३॥
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते। विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥१४-१९-२४॥
देवानामपि देवत्त्वं युक्तः कारयते वशी। ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥१४-१९-२५॥
विनश्यत्स्वपि लोकेषु न भयं तस्य जायते। क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥१४-१९-२६॥
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः। न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ॥१४-१९-२७॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते। नातः सुखतरं किञ्चिल्लोके क्वचन विद्यते ॥१४-१९-२८॥
सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति। तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥१४-१९-२९॥
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथञ्चन। योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥१४-१९-३०॥
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे। पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ॥१४-१९-३१॥
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्। तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ॥१४-१९-३२॥
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते। तस्मिन्काये मनश्चार्यं न कथञ्चन बाह्यतः ॥१४-१९-३३॥
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने। कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥१४-१९-३४॥
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च। हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥१४-१९-३५॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन। पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥१४-१९-३६॥
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते। कथं रसत्वं व्रजति शोणितं जायते कथम् ॥ तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥१४-१९-३७॥
कथमेतानि सर्वाणि शरीराणि शरीरिणाम्। वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ॥ निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥१४-१९-३८॥
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः। कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥१४-१९-३९॥
जीवः कायं वहति चेच्चेष्टयानः कलेवरम्। किंवर्णं कीदृशं चैव निवेशयति वै मनः ॥ याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥१४-१९-४०॥
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव। प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ॥१४-१९-४१॥
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत्। तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ॥ आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥१४-१९-४२॥
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव। आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥१४-१९-४३॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः। मनसैव प्रदीपेन महानात्मनि दृश्यते ॥१४-१९-४४॥
सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम्। जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ॥१४-१९-४५॥
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम्। आत्मानमालोकयति मनसा प्रहसन्निव ॥१४-१९-४६॥
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम। आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ॥१४-१९-४७॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः। अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥१४-१९-४८॥
वासुदेव उवाच॥
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः। मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥१४-१९-४९॥
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा। तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥१४-१९-५०॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः। नरेणाकृतसञ्ज्ञेन विदग्धेनाकृतात्मना ॥१४-१९-५१॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ। कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ॥१४-१९-५२॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ। नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥१४-१९-५३॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः। न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥१४-१९-५४॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्। यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥१४-१९-५५॥
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥१४-१९-५६॥
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः। स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥१४-१९-५७॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने। सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ॥ अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥१४-१९-५८॥
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव। यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ॥ एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥१४-१९-५९॥
एतावदेव वक्तव्यं नातो भूयोऽस्ति किञ्चन। षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥१४-१९-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.