14.020
वासुदेव उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। दम्पत्योः पार्थ संवादमभयं नाम नामतः ॥१४-२०-१॥
ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम्। दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत् ॥१४-२०-२॥
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता। न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ॥१४-२०-३॥
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम्। त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम् ॥१४-२०-४॥
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव। सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे ॥१४-२०-५॥
ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते। एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः ॥१४-२०-६॥
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः। नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते ॥१४-२०-७॥
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम्। जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते ॥१४-२०-८॥
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु। आत्मस्थमात्मना तेन दृष्टमायतनं मया ॥१४-२०-९॥
यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना। व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् ॥१४-२०-१०॥
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते। विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः ॥१४-२०-११॥
घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया। स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते ॥१४-२०-१२॥
चक्षुषा न विषह्यं च यत्किञ्चिच्छ्रवणात्परम्। अगन्धमरसस्पर्शमरूपाशब्दमव्ययम् ॥१४-२०-१३॥
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति। प्राणोऽपानः समानश्च व्यानश्चोदान एव च ॥१४-२०-१४॥
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च। समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः ॥१४-२०-१५॥
तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च। अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति ॥ तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः ॥१४-२०-१६॥
प्राणानायम्यते येन तमुदानं प्रचक्षते। तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः ॥१४-२०-१७॥
तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम्। अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा ॥१४-२०-१८॥
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्। मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः ॥१४-२०-१९॥
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च। मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम ॥१४-२०-२०॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः। मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥१४-२०-२१॥
घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च। हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु ॥ सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु ॥१४-२०-२२॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः ॥१४-२०-२३॥
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम्। अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु ॥ तत्रैव च निरुध्यन्ते प्रलये भूतभावने ॥१४-२०-२४॥
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः। ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते ॥१४-२०-२५॥
ततः सञ्जायते शब्दः संशयस्तत्र जायते। ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः ॥१४-२०-२६॥
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः। पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा ॥१४-२०-२७॥