Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.021
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। निबोध दशहोतॄणां विधानमिह यादृशम् ॥१४-२१-१॥
सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते। रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥१४-२१-२॥
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते। ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ॥१४-२१-३॥
ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते। रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥१४-२१-४॥
ब्राह्मण्युवाच॥
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्। मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥१४-२१-५॥
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता। समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥१४-२१-६॥
ब्राह्मण उवाच॥
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम्। तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥१४-२१-७॥
प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि। तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥१४-२१-८॥
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्। आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥१४-२१-९॥
मन इत्येव भगवांस्तदा प्राह सरस्वतीम्। अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥१४-२१-१०॥
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम। स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥१४-२१-११॥
यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा। तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥१४-२१-१२॥
यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने। तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥१४-२१-१३॥
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति। प्रेर्यमाणा महाभागे विना प्राणमपानती ॥ प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥१४-२१-१४॥
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः। तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥१४-२१-१५॥
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते। तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥१४-२१-१६॥
गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी। सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥१४-२१-१७॥
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते। एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥१४-२१-१८॥
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया। किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥१४-२१-१९॥
प्राणेन या सम्भवते शरीरे; प्राणादपानं प्रतिपद्यते च। उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति ॥१४-२१-२०॥
ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि। तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा ॥१४-२१-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.