Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.022
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सुभगे सप्तहोतॄणां विधानमिह यादृशम् ॥१४-२२-१॥
घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम्। मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥१४-२२-२॥
सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम्। एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥१४-२२-३॥
ब्राह्मण्युवाच॥
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः। कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥१४-२२-४॥
ब्राह्मण उवाच॥
गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता। परस्परगुणानेते न विजानन्ति कर्हिचित् ॥१४-२२-५॥
जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च। न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥१४-२२-६॥
घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च। न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥१४-२२-७॥
घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च। न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥१४-२२-८॥
घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा। न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥१४-२२-९॥
घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च। न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥१४-२२-१०॥
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च। संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥१४-२२-११॥
घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च। न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति ॥१४-२२-१२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥१४-२२-१३॥
मन उवाच॥
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते। रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥१४-२२-१४॥
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन। प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥१४-२२-१५॥
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः। इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥१४-२२-१६॥
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः। गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥१४-२२-१७॥
इन्द्रियाण्यूचुः॥
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान्। ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥१४-२२-१८॥
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्। भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ॥१४-२२-१९॥
अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च। यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥१४-२२-२०॥
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा। घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥१४-२२-२१॥
श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया। त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥१४-२२-२२॥
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्। भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥१४-२२-२३॥
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति। ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥१४-२२-२४॥
विषयानेवमस्माभिर्दर्शितानभिमन्यसे। अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥१४-२२-२५॥
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्। अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥१४-२२-२६॥
बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च। बुभुक्षया पीड्यमानो विषयानेव धावसि ॥१४-२२-२७॥
अगारमद्वारमिव प्रविश्य; सङ्कल्पभोगो विषयानविन्दन्। प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव ॥१४-२२-२८॥
कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः। अस्मानृते नास्ति तवोपलब्धि; स्त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥१४-२२-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.