14.023
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। सुभगे पञ्चहोतॄणां विधानमिह यादृशम् ॥१४-२३-१॥
प्राणापानावुदानश्च समानो व्यान एव च। पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ॥१४-२३-२॥
ब्राह्मण्युवाच॥
स्वभावात्सप्त होतार इति ते पूर्विका मतिः। यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥१४-२३-३॥
ब्राह्मण उवाच॥
प्राणेन सम्भृतो वायुरपानो जायते ततः। अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥१४-२३-४॥
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते। उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ॥१४-२३-५॥
तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम्। यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥१४-२३-६॥
ब्रह्मोवाच॥
यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे। यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः ॥१४-२३-७॥
प्राण उवाच॥
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥१४-२३-८॥
ब्राह्मण उवाच॥
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह। समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥१४-२३-९॥
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्। न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ॥ प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥१४-२३-१०॥
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥१४-२३-११॥
व्यानश्च तमुदानश्च भाषमाणमथोचतुः। अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥१४-२३-१२॥
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥१४-२३-१३॥
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥१४-२३-१४॥
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह। प्राणापानावुदानश्च समानश्च तमब्रुवन् ॥ न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥१४-२३-१५॥
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥१४-२३-१६॥
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥१४-२३-१७॥
ततः समानः प्रालिल्ये पुनश्च प्रचचार ह। प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् ॥ समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥१४-२३-१८॥
समानः प्रचचाराथ उदानस्तमुवाच ह। श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥१४-२३-१९॥
मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे। मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥१४-२३-२०॥
ततः प्रालीयतोदानः पुनश्च प्रचचार ह। प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन् ॥ उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥१४-२३-२१॥
ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः। सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ॥ सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ॥१४-२३-२२॥
एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः। एक एव ममैवात्मा बहुधाप्युपचीयते ॥१४-२३-२३॥
परस्परस्य सुहृदो भावयन्तः परस्परम्। स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥१४-२३-२४॥