14.024
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। नारदस्य च संवादमृषेर्देवमतस्य च ॥१४-२४-१॥
देवमत उवाच॥
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते। प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥१४-२४-२॥
नारद उवाच॥
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्। प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥१४-२४-३॥
देवमत उवाच॥
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्। प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥१४-२४-४॥
नारद उवाच॥
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते। रसात्सञ्जायते चापि रूपादपि च जायते ॥१४-२४-५॥
स्पर्शात्सञ्जायते चापि गन्धादपि च जायते। एतद्रूपमुदानस्य हर्षो मिथुनसम्भवः ॥१४-२४-६॥
कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः। समानव्यानजनिते सामान्ये शुक्रशोणिते ॥१४-२४-७॥
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते। प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥१४-२४-८॥
प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः। व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥१४-२४-९॥
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम्। सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥१४-२४-१०॥
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः। सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥१४-२४-११॥
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः। प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ॥ एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-१२॥
निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु। अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-१४॥
उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-१५॥
उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-१६॥
उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-१७॥
सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-१८॥
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत्। तृतीयं तु समानेन पुनरेव व्यवस्यते ॥१४-२४-१९॥
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम्। एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४-२४-२०॥