Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.025
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। चातुर्होत्रविधानस्य विधानमिह यादृशम् ॥१४-२५-१॥
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते। शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥१४-२५-२॥
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि। चत्वार एते होतारो यैरिदं जगदावृतम् ॥१४-२५-३॥
होतॄणां साधनं चैव शृणु सर्वमशेषतः। घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ॥ मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥१४-२५-४॥
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः। मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥१४-२५-५॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः। मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥१४-२५-६॥
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम्। अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥१४-२५-७॥
विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि। गुणास्ते देवताभूताः सततं भुञ्जते हविः ॥१४-२५-८॥
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते। आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥१४-२५-९॥
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्। स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥१४-२५-१०॥
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः। स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥१४-२५-११॥
मनसा गम्यते यच्च यच्च वाचा निरुद्यते। श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥१४-२५-१२॥
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्। मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥१४-२५-१३॥
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः। योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः ॥ प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ॥१४-२५-१४॥
कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः। कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ॥१४-२५-१५॥
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः। नारायणाय देवाय यदबध्नन्पशून्पुरा ॥१४-२५-१६॥
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम्। देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥१४-२५-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.