Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.026
ब्राह्मण उवाच॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि। हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम् ॥१४-२६-१॥
एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि। तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव ॥१४-२६-२॥
एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि। तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति ॥१४-२६-३॥
एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि। तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम् ॥१४-२६-४॥
एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि। तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव ॥१४-२६-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥१४-२६-६॥
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम्। पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति ॥१४-२६-७॥
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्। ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥१४-२६-८॥
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः। सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥१४-२६-९॥
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः। दानं देवा व्यवसिता दममेव महर्षयः ॥१४-२६-१०॥
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः। नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥१४-२६-११॥
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्। पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥१४-२६-१२॥
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते। गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥१४-२६-१३॥
पापेन विचरँल्लोके पापचारी भवत्ययम्। शुभेन विचरँल्लोके शुभचारी भवत्युत ॥१४-२६-१४॥
कामचारी तु कामेन य इन्द्रियसुखे रतः। व्रतवारी सदैवैष य इन्द्रियजये रतः ॥१४-२६-१५॥
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः। ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ॥१४-२६-१६॥
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः। आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥१४-२६-१७॥
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः। विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥१४-२६-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.