Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.027
ब्राह्मण उवाच॥
सङ्कल्पदंशमशकं शोकहर्षहिमातपम्। मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ॥१४-२७-१॥
विषयैकात्ययाध्वानं कामक्रोधविरोधकम्। तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥१४-२७-२॥
ब्राह्मण्युवाच॥
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः। गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ॥१४-२७-३॥
ब्राह्मण उवाच॥
न तदस्ति पृथग्भावे किञ्चिदन्यत्ततः समम्। न तदस्त्यپृथग्भावे किञ्चिद्दूरतरं ततः ॥१४-२७-४॥
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम्। नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥१४-२७-५॥
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः। न च बिभ्यति केषाञ्चित्तेभ्यो बिभ्यति के च न ॥१४-२७-६॥
तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त। सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम् ॥१४-२७-७॥
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१४-२७-८॥
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१४-२७-९॥
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१४-२७-१०॥
शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१४-२७-११॥
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च। सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१४-२७-१२॥
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च। विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥१४-२७-१३॥
एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति। तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः ॥१४-२७-१४॥
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः। अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥१४-२७-१५॥
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम्। ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥१४-२७-१६॥
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः। ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥१४-२७-१७॥
सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः। ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च ॥१४-२७-१८॥
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च। सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥१४-२७-१९॥
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी। एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥१४-२७-२०॥
गिरयः पर्वताश्चैव सन्ति तत्र समासतः। नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम् ॥१४-२७-२१॥
नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे। स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥१४-२७-२२॥
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः। आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥१४-२७-२३॥
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः। तदरण्यमभिप्रेत्य यथाधीरमजायत ॥१४-२७-२४॥
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः। विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥१४-२७-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.