14.028
ब्राह्मण उवाच॥
गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि। न चापि शब्दान्विविधाञ्शृणोमि; न चापि सङ्कल्पमुपैमि किञ्चित् ॥१४-२८-१॥
अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः। कामद्वेषावुद्भवतः स्वभावा; त्प्राणापानौ जन्तुदेहान्निवेश्य ॥१४-२८-२॥
तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा; न्भूतात्मानं लक्षयेयं शरीरे। तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चि; त्कामक्रोधाभ्यां जरया मृत्युना च ॥१४-२८-३॥
अकामयानस्य च सर्वकामा; नविद्विषाणस्य च सर्वदोषान्। न मे स्वभावेषु भवन्ति लेपा; स्तोयस्य बिन्दोरिव पुष्करेषु ॥१४-२८-४॥
नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान्। न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम् ॥१४-२८-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अध्वर्युयतिसंवादं तं निबोध यशस्विनि ॥१४-२८-६॥
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्। यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥१४-२८-७॥
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति। श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥१४-२८-८॥
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति। यदस्य वारिजं किञ्चिदपस्तत्प्रतिपद्यते ॥१४-२८-९॥
सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च। आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन ॥१४-२८-१०॥
यतिरुवाच॥
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि। छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥१४-२८-११॥
अनु त्वा मन्यतां माता पिता भ्राता सखापि च। मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥१४-२८-१२॥
य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति। तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥१४-२८-१३॥
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु। शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥१४-२८-१४॥
इन्धनस्य तु तुल्येन शरीरेण विचेतसा। हिंसा निर्वेष्टुकामानामिन्धनं पशुसञ्ज्ञितम् ॥१४-२८-१५॥
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्। यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥१४-२८-१६॥
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्। शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥१४-२८-१७॥
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते। प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥१४-२८-१८॥
अध्वर्युरुवाच॥
भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान्। ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥१४-२८-१९॥
शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम्। सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥१४-२८-२०॥
प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान्। नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥१४-२८-२१॥
यतिरुवाच॥
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः। अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥१४-२८-२२॥
प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह। भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः ॥१४-२८-२३॥
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः। समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥१४-२८-२४॥
अध्वर्युरुवाच॥
सद्भिरेवेह संवासः कार्यो मतिमतां वर। भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥१४-२८-२५॥
भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम्। मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥१४-२८-२६॥
ब्राह्मण उवाच॥
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्। अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥१४-२८-२७॥
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः। विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥१४-२८-२८॥