Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.029
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥१४-२९-१॥
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्। येन सागरपर्यन्ता धनुषा निर्जिता मही ॥१४-२९-२॥
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः। अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥१४-२९-३॥
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह। मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥१४-२९-४॥
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः। वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥१४-२९-५॥
अर्जुन उवाच॥
मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित्। विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥१४-२९-६॥
समुद्र उवाच॥
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः। तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥१४-२९-७॥
ततः स राजा प्रययौ क्रोधेन महता वृतः। स तमाश्रममागम्य राममेवान्वपद्यत ॥१४-२९-८॥
स रामप्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य च महात्मनः ॥१४-२९-९॥
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥१४-२९-१०॥
ततः परशुमादाय स तं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥१४-२९-११॥
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः। असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥१४-२९-१२॥
रामोऽपि धनुरादाय रथमारुह्य सत्वरः। विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥१४-२९-१३॥
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च। विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥१४-२९-१४॥
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्। प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥१४-२९-१५॥
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह। वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥१४-२९-१६॥
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥१४-२९-१७॥
एकविंशतिमेधान्ते रामं वागशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥१४-२९-१८॥
राम राम निवर्तस्व कं गुणं तात पश्यसि। क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥१४-२९-१९॥
तथैव तं महात्मानमृचीकप्रमुखास्तदा। पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥१४-२९-२०॥
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्। नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥१४-२९-२१॥
पितर ऊचुः॥
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर। न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥१४-२९-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.