Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.032
ब्राह्मण उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥१४-३२-१॥
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे। विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥१४-३२-२॥
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्। आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥१४-३२-३॥
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो। वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥१४-३२-४॥
इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना। मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥१४-३२-५॥
तमासीनं ध्यायमानं राजानममितौजसम्। कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥१४-३२-६॥
समाश्वास्य ततो राजा व्यपेते कश्मले तदा। ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥१४-३२-७॥
पितृपैतामहे राज्ये वश्ये जनपदे सति। विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥१४-३२-८॥
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया। नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥१४-३२-९॥
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत्। ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥१४-३२-१०॥
तया न विषयं मन्ये सर्वो वा विषयो मम। आत्मापि चायं न मम सर्वा वा पृथिवी मम ॥ उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥१४-३२-११॥
पितृपैतामहे राज्ये वश्ये जनपदे सति। ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥१४-३२-१२॥
कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव। नावैषि विषयं येन सर्वो वा विषयस्तव ॥१४-३२-१३॥
जनक उवाच॥
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु। नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥१४-३२-१४॥
कस्येदमिति कस्य स्वमिति वेदवचस्तथा। नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥१४-३२-१५॥
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया। शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥१४-३२-१६॥
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि। तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥१४-३२-१७॥
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः। आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥१४-३२-१८॥
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा। तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥१४-३२-१९॥
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये। तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥१४-३२-२०॥
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि। तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥१४-३२-२१॥
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे। मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥१४-३२-२२॥
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह। इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥१४-३२-२३॥
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्। त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥१४-३२-२४॥
त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः। सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥१४-३२-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.