14.031
ब्राह्मण उवाच॥
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः। हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥१४-३१-१॥
शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः। स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥१४-३१-२॥
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः। जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥१४-३१-३॥
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः। अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥१४-३१-४॥
समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु। जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥१४-३१-५॥
स निगृह्य महादोषान्साधून्समभिपूज्य च। जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥१४-३१-६॥
भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः। एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥१४-३१-७॥
येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति। तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥१४-३१-८॥
अकार्यमपि येनेह प्रयुक्तः सेवते नरः। तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥१४-३१-९॥
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते। स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥१४-३१-१०॥
स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते। जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे ॥१४-३१-११॥
तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत्। एतद्राज्यं नान्यदस्तीति विद्या; द्यस्त्वत्र राजा विजितो ममैकः ॥१४-३१-१२॥
इति राज्ञाम्बरीषेण गाथा गीता यशस्विना। आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥१४-३१-१३॥