Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.033
ब्राह्मण उवाच॥
नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या। विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि ॥१४-३३-१॥
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे। मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥१४-३३-२॥
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह। तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥१४-३३-३॥
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे। तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥१४-३३-४॥
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः। गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ॥ लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥१४-३३-५॥
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका। ते भावमेकमायान्ति सरितः सागरं यथा ॥१४-३३-६॥
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते। आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥१४-३३-७॥
तस्मात्ते सुभगे नास्ति परलोककृतं भयम्। मद्भावभावनिरता ममैवात्मानमेष्यसि ॥१४-३३-८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.