14.034
ब्राह्मण्युवाच॥
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना। बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ॥१४-३४-१॥
उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः। तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥१४-३४-२॥
ब्राह्मण उवाच॥
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः। तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥१४-३४-३॥
ब्राह्मण्युवाच॥
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम्। ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥१४-३४-४॥
ब्राह्मण उवाच॥
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते। उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥१४-३४-५॥
सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते। कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥१४-३४-६॥
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते। पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥१४-३४-७॥
यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत्। व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥१४-३४-८॥
सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान्। यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥१४-३४-९॥
वासुदेव उवाच॥
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये। क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥१४-३४-१०॥
अर्जुन उवाच॥
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः। याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥१४-३४-११॥
वासुदेव उवाच॥
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्। क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥१४-३४-१२॥