14.035
अर्जुन उवाच॥
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि। भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥१४-३५-१॥
वासुदेव उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥१४-३५-२॥
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्। शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परन्तप ॥१४-३५-३॥
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः। याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ॥१४-३५-४॥
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह। कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥१४-३५-५॥
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः। प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥१४-३५-६॥
शिष्य उवाच॥
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्। कुतो जातानि भूतानि स्थावराणि चराणि च ॥१४-३५-७॥
केन जीवन्ति भूतानि तेषामायुः किमात्मकम्। किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ॥ के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ॥१४-३५-८॥
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम। वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ॥१४-३५-९॥
वासुदेव उवाच॥
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते। शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ॥ छायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥१४-३५-१०॥
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः। गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥१४-३५-११॥
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम्। वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥१४-३५-१२॥
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्। सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ॥१४-३५-१३॥
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते। बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥१४-३५-१४॥
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्। बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥१४-३५-१५॥
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च। मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥१४-३५-१६॥
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः। ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥१४-३५-१७॥
तं प्रणम्य महात्मानं सुखासीनं महर्षयः। पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ॥१४-३५-१८॥
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात्। के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ॥१४-३५-१९॥
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति। प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥१४-३५-२०॥
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः। तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ॥१४-३५-२१॥
ब्रह्मोवाच॥
सत्याद्भूतानि जातानि स्थावराणि चराणि च। तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥१४-३५-२२॥
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा। सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥१४-३५-२३॥
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः। सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥१४-३५-२४॥
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः। अतीतक्रोधसन्तापा नियता धर्मसेतवः ॥१४-३५-२५॥
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्। तानहं सम्प्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥१४-३५-२६॥
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक्। धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥१४-३५-२७॥
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः। नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥१४-३५-२८॥
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम्। निबोधत महाभागा निखिलेन परं पदम् ॥१४-३५-२९॥
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम्। गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ॥ ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥१४-३५-३०॥
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः। नोपैति यावदध्यात्मं तावदेतान्न पश्यति ॥ तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥१४-३५-३१॥
फलमूलानिलभुजां मुनीनां वसतां वने। वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥१४-३५-३२॥
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते। श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ॥१४-३५-३३॥
इत्येते देवयाना वः पन्थानः परिकीर्तिताः। सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥१४-३५-३४॥
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः। कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥१४-३५-३५॥
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना। विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥१४-३५-३६॥
महानात्मा तथाव्यक्तमहङ्कारस्तथैव च। इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥१४-३५-३७॥
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः। चतुर्विंशतिरेषा वस्तत्त्वानां सम्प्रकीर्तिता ॥१४-३५-३८॥
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ। स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥१४-३५-३९॥
तत्त्वानि यो वेदयते यथातथं; गुणांश्च सर्वानखिलाश्च देवताः। विधूतपाप्मा प्रविमुच्य बन्धनं; स सर्वलोकानमलान्समश्नुते ॥१४-३५-४०॥