14.036
ब्रह्मोवाच॥
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्। नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ॥१४-३६-१॥
एकादशपरिक्षेपं मनो व्याकरणात्मकम्। बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ॥१४-३६-२॥
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः। प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ॥१४-३६-३॥
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते। अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ॥१४-३६-४॥
अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः। अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ॥१४-३६-५॥
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः। रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ॥१४-३६-६॥
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते। नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ॥१४-३६-७॥
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम्। अधर्मलक्षणं चैव नियतं पापकर्मसु ॥१४-३६-८॥
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम्। प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ॥१४-३६-९॥
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता। सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ॥१४-३६-१०॥
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः। समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे ॥१४-३६-११॥
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः। स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम् ॥१४-३६-१२॥
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता। निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ॥१४-३६-१३॥
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता। अमैत्री विकृतो भावो अश्रद्धा मूढभावना ॥१४-३६-१४॥
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना। गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ॥१४-३६-१५॥
सर्व एते गुणा विप्रास्तामसाः सम्प्रकीर्तिताः। ये चान्ये नियता भावा लोकेऽस्मिन्मोहसञ्ज्ञिताः ॥१४-३६-१६॥
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः। परिवादकथा नित्यं देवब्राह्मणवैदिकाः ॥१४-३६-१७॥
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा। मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ॥१४-३६-१८॥
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च। वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ॥१४-३६-१९॥
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता। अश्रद्दधानता चैव तामसं वृत्तमिष्यते ॥१४-३६-२०॥
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः। मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ॥१४-३६-२१॥
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम्। अवाङ्निरयभावाय तिर्यङ्निरयगामिनः ॥१४-३६-२२॥
स्थावराणि च भूतानि पशवो वाहनानि च। क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ॥१४-३६-२३॥
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः। उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः ॥१४-३६-२४॥
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः। अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ॥१४-३६-२५॥
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्। यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ॥१४-३६-२६॥
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु। स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम् ॥१४-३६-२७॥
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम्। स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ॥१४-३६-२८॥
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु। पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ॥१४-३६-२९॥
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः। वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ॥१४-३६-३०॥
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः। स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ॥१४-३६-३१॥
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः। ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः ॥१४-३६-३२॥
तमो मोहो महामोहस्तामिस्रः क्रोधसञ्ज्ञितः। मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ॥१४-३६-३३॥
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः। सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ॥१४-३६-३४॥
को न्वेतद्बुध्यते साधु को न्वेतत्साधु पश्यति। अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ॥१४-३६-३५॥
तमोगुणा वो बहुधा प्रकीर्तिता; यथावदुक्तं च तमः परावरम्। नरो हि यो वेद गुणानिमान्सदा; स तामसैः सर्वगुणैः प्रमुच्यते ॥१४-३६-३६॥