14.037
ब्रह्मोवाच॥
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः। निबोधत महाभागा गुणवृत्तं च सर्वशः ॥१४-३७-१॥
सङ्घातो रूपमायासः सुखदुःखे हिमातपौ। ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा ॥१४-३७-२॥
बलं शौर्यं मदो रोषो व्यायामकलहावपि। ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥१४-३७-३॥
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च। निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ॥१४-३७-४॥
उग्रं दारुणमाक्रोशः परवित्तानुशासनम्। लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ॥१४-३७-५॥
मृषावादो मृषादानं विकल्पः परिभाषणम्। निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ॥१४-३७-६॥
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः। व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः ॥१४-३७-७॥
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक्। नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥१४-३७-८॥
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये। प्रदानमाशीर्युक्तं च सततं मे भवत्विति ॥१४-३७-९॥
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया। याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ॥१४-३७-१०॥
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः। अभिद्रोहस्तथा माया निकृतिर्मान एव च ॥१४-३७-११॥
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः। स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ॥१४-३७-१२॥
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये। नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन ॥ सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ॥१४-३७-१३॥
भूतभव्यभविष्याणां भावानां भुवि भावनाः। त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥१४-३७-१४॥
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः। अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ॥१४-३७-१५॥
अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः। प्रेत्यभाविकमीहन्त इह लौकिकमेव च ॥ ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति ॥१४-३७-१६॥
रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च। नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते ॥१४-३७-१७॥