Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.039
ब्रह्मोवाच॥
नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः। अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ॥१४-३९-१॥
अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः। अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः ॥१४-३९-२॥
यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः। यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ॥१४-३९-३॥
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः। सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः ॥१४-३९-४॥
उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम्। वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ॥१४-३९-५॥
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्। अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥१४-३९-६॥
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्। अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः ॥१४-३९-७॥
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत्। अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः ॥१४-३९-८॥
सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका। न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते ॥१४-३९-९॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः ॥१४-३९-१०॥
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्। इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः ॥१४-३९-११॥
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः। तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ॥१४-३९-१२॥
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत्। अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ॥१४-३९-१३॥
आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः। परितापोऽध्वगानां च राजसो गुण उच्यते ॥१४-३९-१४॥
प्राकाश्यं सत्त्वमादित्ये सन्तापो राजसो गुणः। उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु ॥१४-३९-१५॥
एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः। पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा ॥१४-३९-१६॥
स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः। राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ॥१४-३९-१७॥
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते। मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा ॥१४-३९-१८॥
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते। त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ॥१४-३९-१९॥
भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि। प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः ॥१४-३९-२०॥
यत्किञ्चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु। त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु ॥ सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ॥१४-३९-२१॥
तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः। प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ ॥१४-३९-२२॥
अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम्। सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् ॥ ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः ॥१४-३९-२३॥
अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः। विमुक्तदेहः प्रविभागतत्त्ववि; त्स मुच्यते सर्वगुणैर्निरामयः ॥१४-३९-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.