Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.040
ब्रह्मोवाच॥
अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः। आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ॥१४-४०-१॥
महानात्मा मतिर्विष्णुर्विश्वः शम्भुश्च वीर्यवान्। बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः ॥१४-४०-२॥
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते। तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ॥१४-४०-३॥
सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः। सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति ॥१४-४०-४॥
महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥१४-४०-५॥
तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये। ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥१४-४०-६॥
ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः। प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः ॥विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै ॥१४-४०-७॥
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्। स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ॥१४-४०-८॥
एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम्। हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥१४-४०-९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.