14.038
ब्रह्मोवाच॥
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्। सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ॥१४-३८-१॥
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च। अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥१४-३८-२॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्। अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः ॥१४-३८-३॥
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः। एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते ॥१४-३८-४॥
निर्ममो निरहङ्कारो निराशीः सर्वतः समः। अकामहत इत्येष सतां धर्मः सनातनः ॥१४-३८-५॥
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता। आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम् ॥१४-३८-६॥
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता। शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम् ॥१४-३८-७॥
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः। निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता ॥१४-३८-८॥
मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम्। मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः ॥१४-३८-९॥
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः। ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः ॥१४-३८-१०॥
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः। दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः ॥१४-३८-११॥
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते। विकुर्वते महात्मानो देवास्त्रिदिवगा इव ॥१४-३८-१२॥
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः। विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः ॥ यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ॥१४-३८-१३॥
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः। एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति ॥१४-३८-१४॥
प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च। नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते ॥१४-३८-१५॥