Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.042
ब्रह्मोवाच॥
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥१४-४२-१॥
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु। शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥१४-४२-२॥
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते। सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥१४-४२-३॥
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते। लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥१४-४२-४॥
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे। स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥१४-४२-५॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। क्रियाकारणयुक्ताः स्युरनित्या मोहसञ्ज्ञिताः ॥१४-४२-६॥
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिञ्चनाः। मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ॥१४-४२-७॥
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः। प्राणापानावुदानश्च समानो व्यान एव च ॥१४-४२-८॥
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः। वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥१४-४२-९॥
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता। विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥१४-४२-१०॥
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा। स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते ॥१४-४२-११॥
एकादश च यान्याहुरिन्द्रियाणि विशेषतः। अहङ्कारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः ॥१४-४२-१२॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत् ॥१४-४२-१३॥
इन्द्रियग्राम इत्येष मन एकादशं भवेत्। एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥१४-४२-१४॥
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च। श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥१४-४२-१५॥
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु। उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत् ॥१४-४२-१६॥
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात्। मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः ॥१४-४२-१७॥
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते। स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम् ॥१४-४२-१८॥
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च। चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥१४-४२-१९॥
अचराण्यपि भूतानि खेचराणि तथैव च। अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥१४-४२-२०॥
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः। जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते ॥१४-४२-२१॥
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्। उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः ॥१४-४२-२२॥
द्विपादबहुपादानि तिर्यग्गतिमतीनि च। जरायुजानि भूतानि वित्त तान्यपि सत्तमाः ॥१४-४२-२३॥
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना। तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥१४-४२-२४॥
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे। जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥१४-४२-२५॥
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः। विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥१४-४२-२६॥
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते। अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥१४-४२-२७॥
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम्। स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम् ॥१४-४२-२८॥
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते। अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥१४-४२-२९॥
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते। अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥१४-४२-३०॥
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममिष्यते। अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥१४-४२-३१॥
एष पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः। अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥१४-४२-३२॥
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः। अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥१४-४२-३३॥
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते। अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥१४-४२-३४॥
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते। अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥१४-४२-३५॥
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः। अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम् ॥१४-४२-३६॥
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते। वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥१४-४२-३७॥
अध्यात्मं मन इत्याहुः पञ्चभूतानुचारकम्। अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम् ॥१४-४२-३८॥
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी। अधिभूतं तु विज्ञेयं ब्रह्मा तत्राधिदैवतम् ॥१४-४२-३९॥
यथावदध्यात्मविधिरेष वः कीर्तितो मया। ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह ॥१४-४२-४०॥
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च। सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत् ॥१४-४२-४१॥
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते। ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥१४-४२-४२॥
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्। निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥१४-४२-४३॥
गुणागुणमनासङ्गमेकचर्यमनन्तरम्। एतद्ब्राह्मणतो वृत्तमाहुरेकपदं सुखम् ॥१४-४२-४४॥
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः। विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥१४-४२-४५॥
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः। सर्वभूतसुहृन्मैत्रो ब्रह्मभूयं स गच्छति ॥१४-४२-४६॥
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्। मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥१४-४२-४७॥
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते। तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ॥१४-४२-४८॥
यदा पश्यति भूतानि प्रसन्नात्मात्मनो हृदि। स्वयंयोनिस्तदा सूक्ष्मात्सूक्ष्ममाप्नोत्यनुत्तमम् ॥१४-४२-४९॥
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनमेव च। मही पङ्कधरं घोरमाकाशं श्रवणं तथा ॥१४-४२-५०॥
रागशोकसमाविष्टं पञ्चस्रोतःसमावृतम्। पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥१४-४२-५१॥
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम्। संसर्गाभिरतं मूढं शरीरमिति धारणा ॥१४-४२-५२॥
दुश्चरं जीवलोकेऽस्मिन्सत्त्वं प्रति समाश्रितम्। एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥१४-४२-५३॥
एतन्महार्णवं घोरमगाधं मोहसञ्ज्ञितम्। विसृजेत्सङ्क्षिपेच्चैव बोधयेत्सामरं जगत् ॥१४-४२-५४॥
कामक्रोधौ भयं मोहमभिद्रोहमथानृतम्। इन्द्रियाणां निरोधेन स तांस्त्यजति दुस्त्यजान् ॥१४-४२-५५॥
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः। व्योम्नि तस्य परं स्थानमनन्तमथ लक्ष्यते ॥१४-४२-५६॥
कामकूलामपारान्तां मनःस्रोतोभयावहाम्। नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत् ॥१४-४२-५७॥
स सर्वदोषनिर्मुक्तस्ततः पश्यति यत्परम्। मनो मनसि सन्धाय पश्यत्यात्मानमात्मनि ॥१४-४२-५८॥
सर्ववित्सर्वभूतेषु वीक्षत्यात्मानमात्मनि। एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥१४-४२-५९॥
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा। स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥१४-४२-६०॥
स हि धाता विधाता च स प्रभुः सर्वतोमुखः। हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥१४-४२-६१॥
तं विप्रसङ्घाश्च सुरासुराश्च; यक्षाः पिशाचाः पितरो वयांसि। रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव सदा स्तुवन्ति ॥१४-४२-६२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.