Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.041
ब्रह्मोवाच॥
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते। अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ॥१४-४१-१॥
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः। तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥१४-४१-२॥
देवानां प्रभवो देवो मनसश्च त्रिलोककृत्। अहमित्येव तत्सर्वमभिमन्ता स उच्यते ॥१४-४१-३॥
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम्। स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥१४-४१-४॥
अहङ्कारेणाहरतो गुणानिमा; न्भूतादिरेवं सृजते स भूतकृत्। वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा ॥१४-४१-५॥