Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.043
ब्रह्मोवाच॥
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः। कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ॥१४-४३-१॥
अविः पशूनां सर्वेषामाखुश्च बिलवासिनाम्। गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ॥१४-४३-२॥
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा। शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः ॥ एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशयः ॥१४-४३-३॥
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्। श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ॥१४-४३-४॥
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा। एते पर्वतराजानो गणानां मरुतस्तथा ॥१४-४३-५॥
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः। यमः पितॄणामधिपः सरितामथ सागरः ॥१४-४३-६॥
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते। अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ॥१४-४३-७॥
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः। ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः ॥१४-४३-८॥
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः। दक्षिणानां तथा यज्ञो वेदानामृषयस्तथा ॥१४-४३-९॥
दिशामुदीची विप्राणां सोमो राजा प्रतापवान्। कुबेरः सर्वयक्षाणां देवतानां पुरंदरः ॥ एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ॥१४-४३-१०॥
सर्वेषामेव भूतानामहं ब्रह्ममयो महान्। भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ॥१४-४३-११॥
राजाधिराजः सर्वासां विष्णुर्ब्रह्ममयो महान्। ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ॥१४-४३-१२॥
नरकिंनरयक्षाणां गन्धर्वोरगरक्षसाम्। देवदानवनागानां सर्वेषामीश्वरो हि सः ॥१४-४३-१३॥
भगदेवानुयातानां सर्वासां वामलोचना। माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ॥१४-४३-१४॥
उमां देवीं विजानीत नारीणामुत्तमां शुभाम्। रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ॥१४-४३-१५॥
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः। तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे ॥१४-४३-१६॥
राज्ञां हि विषये येषामवसीदन्ति साधवः। हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ॥१४-४३-१७॥
राज्ञां तु विषये येषां साधवः परिरक्षिताः। तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च ॥ प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ॥१४-४३-१८॥
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्। अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ॥१४-४३-१९॥
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः। शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः ॥१४-४३-२०॥
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः। धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ॥१४-४३-२१॥
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा। मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात् ॥१४-४३-२२॥
मनसा चिन्तयानोऽर्थान्बुद्ध्या चैव व्यवस्यति। बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः ॥१४-४३-२३॥
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम्। प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ॥१४-४३-२४॥
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्। संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम् ॥ अतीतोऽद्वंद्वमभ्येति तमोमृत्युजरातिगम् ॥१४-४३-२५॥
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया। गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ॥१४-४३-२६॥
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते। घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते ॥१४-४३-२७॥
अपां धातुरसो नित्यं जिह्वया स तु गृह्यते। जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते ॥१४-४३-२८॥
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते। चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीयते ॥१४-४३-२९॥
वायव्यस्तु तथा स्पर्शस्त्वचा प्रज्ञायते च सः। त्वक्स्थश्चैव तथा वायुः स्पर्शज्ञाने विधीयते ॥१४-४३-३०॥
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते। श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः ॥१४-४३-३१॥
मनसस्तु गुणश्चिन्ता प्रज्ञया स तु गृह्यते। हृदिस्थचेतनाधातुर्मनोज्ञाने विधीयते ॥१४-४३-३२॥
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा। निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशयः ॥१४-४३-३३॥
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः। तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ॥१४-४३-३४॥
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्। सदा पश्याम्यहं लीनं विजानामि शृणोमि च ॥१४-४३-३५॥
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते। गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ॥१४-४३-३६॥
आदिमध्यावसानान्तं सृज्यमानमचेतनम्। न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ॥१४-४३-३७॥
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति। गुणानां गुणभूतानां यत्परं परतो महत् ॥१४-४३-३८॥
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित्। क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ॥१४-४३-३९॥
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च। अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ॥१४-४३-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.