14.044
ब्रह्मोवाच॥
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च। नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥१४-४४-१॥
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः। श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥१४-४४-२॥
भूमिरादिस्तु गन्धानां रसानामाप एव च। रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते ॥ शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ॥१४-४४-३॥
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्। आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते ॥१४-४४-४॥
सावित्री सर्वविद्यानां देवतानां प्रजापतिः। ओङ्कारः सर्ववेदानां वचसां प्राण एव च ॥ यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥१४-४४-५॥
गायत्री छन्दसामादिः पशूनामज उच्यते। गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥१४-४४-६॥
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्। परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥१४-४४-७॥
कृतमादिर्युगानां च सर्वेषां नात्र संशयः। हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥१४-४४-८॥
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते। द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥१४-४४-९॥
स्थावराणां च भूतानां सर्वेषामविशेषतः। ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ॥१४-४४-१०॥
अहं प्रजापतीनां च सर्वेषां नात्र संशयः। मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः ॥१४-४४-११॥
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः। दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ॥१४-४४-१२॥
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता। तथा सरोदपानानां सर्वेषां सागरोऽग्रजः ॥१४-४४-१३॥
देवदानवभूतानां पिशाचोरगरक्षसाम्। नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥१४-४४-१४॥
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्। भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ॥१४-४४-१५॥
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः। लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥१४-४४-१६॥
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी। सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥१४-४४-१७॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥१४-४४-१८॥
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्। अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ॥१४-४४-१९॥
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये। सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥१४-४४-२०॥
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः। निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः ॥१४-४४-२१॥