14.045
ब्रह्मोवाच॥
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्। महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥१४-४५-१॥
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम्। देशकालविचारीदं श्रमव्यायामनिस्वनम् ॥१४-४५-२॥
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्। सुखदुःखान्तसङ्क्लेशं क्षुत्पिपासावकीलनम् ॥१४-४५-३॥
छायातपविलेखं च निमेषोन्मेषविह्वलम्। घोरमोहजनाकीर्णं वर्तमानमचेतनम् ॥१४-४५-४॥
मासार्धमासगणितं विषमं लोकसञ्चरम्। तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥१४-४५-५॥
सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम्। स्वरविग्रहनाभीकं शोकसङ्घातवर्तनम् ॥१४-४५-६॥
क्रियाकारणसंयुक्तं रागविस्तारमायतम्। लोभेप्सापरिसङ्ख्यातं विविक्तज्ञानसम्भवम् ॥१४-४५-७॥
भयमोहपरीवारं भूतसंमोहकारकम्। आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ॥१४-४५-८॥
महदादिविशेषान्तमसक्तप्रभवाव्ययम्। मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥१४-४५-९॥
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम्। विसृजेत्सङ्क्षिपेच्चापि बोधयेत्सामरं जगत् ॥१४-४५-१०॥
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः। यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥१४-४५-११॥
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वंद्वातिगो मुनिः। विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥१४-४५-१२॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥१४-४५-१३॥
यः कश्चिदिह लोके च ह्यागमः सम्प्रकीर्तितः। तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥१४-४५-१४॥
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः। जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥१४-४५-१५॥
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः। पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥१४-४५-१६॥
देवतातिथिशिष्टाशी निरतो वेदकर्मसु। इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥१४-४५-१७॥
न पाणिपादचपलो न नेत्रचपलो मुनिः। न च वागङ्गचपल इति शिष्टस्य गोचरः ॥१४-४५-१८॥
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः। नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥१४-४५-१९॥
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः। वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥१४-४५-२०॥
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने। दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥१४-४५-२१॥
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका। याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥१४-४५-२२॥
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु। दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥१४-४५-२३॥
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्। दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥१४-४५-२४॥
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः। एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥१४-४५-२५॥