Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.047
ब्रह्मोवाच॥
संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः। ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥१४-४७-१॥
अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम्। निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम् ॥१४-४७-२॥
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम्। निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः ॥१४-४७-३॥
तपसा क्षेममध्वानं गच्छन्ति परमैषिणः। संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः ॥१४-४७-४॥
तपः प्रदीप इत्याहुराचारो धर्मसाधकः। ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम् ॥१४-४७-५॥
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात्। सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते ॥१४-४७-६॥
यो विद्वान्सहवासं च विवासं चैव पश्यति। तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥१४-४७-७॥
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते। इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥१४-४७-८॥
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्। निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥१४-४७-९॥
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च। निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति ॥१४-४७-१०॥
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्। उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥१४-४७-११॥
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्। महाहङ्कारविटप इन्द्रियान्तरकोटरः ॥१४-४७-१२॥
महाभूतविशाखश्च विशेषप्रतिशाखवान्। सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥ आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥१४-४७-१३॥
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना। हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी ॥ निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥१४-४७-१४॥
द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ। एताभ्यां तु परो यस्य चेतनावानिति स्मृतः ॥१४-४७-१५॥
अचेतनः सत्त्वसङ्घातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा। स क्षेत्रज्ञः सत्त्वसङ्घातबुद्धि; र्गुणातिगो मुच्यते मृत्युपाशात् ॥१४-४७-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.